SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ xóa so xo इति सकलशरीरालोकरम्पत्वमेतत् निजमनसि विचार्योत्तार्य चातुर्यवयः। अघपुषि बपुषि स्वे धर्मनिःस्वे स विश्वेश्वर इह हदि भावं चिन्तयामास सत्यम् ॥३८॥ जलमलयजवस्त्र-स्वर्णरत्नादिवस्तून्यनिरुचिररुचीनि स्युहि मलाख्यानि यस्मात् । अहमहह!! निजायुमोक्षसौख्यस्य हेतुर्व्यगमयिषमनयं तस्य देहस्य दास्यात् ॥३९॥ यदशुचि यदरम्यं निर्मितं तेन देहं यदतिशुचि मनोझं हाऽन्यथा तत् करोति । लघयति निजधातुमित्रवर्ग महारीन् गरयति विपरीतः कायतोऽन्यत्र नास्ति ॥४॥ असुखदमपि पापं सेवते जन्म दत्त्वा सुखकृदपि न पुण्यं देहवन्धप्रणाशि । अयि शृणु परमात्मन् ! धूर्तमेतच्छरीरं त्वमसि भृशविमुग्धो यः स्वकार्यप्रमादी ॥४१॥ मृपतिभवभवेन स्वेन पापेन गाढं सपरिभवमवेक्ष्य त्वां सुदुःखाकुलेव । किल परिहरति स्माऽलंकृतियोऽत्र देहे तव बहुहितनिष्ठा जीव ! सेयं कनिष्ठा ॥४२॥ वसन-कनकभूषाः सत्कुविन्दाः कलादा मुहुरिह रचयित्वाऽमण्डयन् देहमेतत् । सकलमपि निमेषेणैव सामीप्यमात्रात् परिगलितमलत्वाद् निर्ममे दर्पणोऽयम् ॥४॥ अयमिव परमात्मन् ! निर्मलीभूय भूयः स्मर सुयतिवराणां त्वं तथा सच्चरित्रम् । अयतिरपि तथाऽऽशु स्वाजितं पापसंघं यतिरिव परिपेष्टुं यत्नमुचैविधेहि ॥४४॥ (युग्मम् ) विविध विषयसौख्यैः प्रीतमेतच्छरीरं तदुपचितमघौघं भोक्ष्यसे तु त्वमेव । १ पापपोषके। 00000000000000000000000000000000 sooooOOOOOOOOOo9x9 Jain Education Mational For Private & Personal Use Only wwwjainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy