________________
पुण्डरीक
॥३०४॥
समाप्ति
00000000000000000000000000000000000000000
सरलकरकनिष्ठां नष्टकान्ति समग्राङ्गुलिषु कलितदैन्या तामिवेक्षांचकार ॥३०॥ किमियमतिविशोभा दृश्यते मेऽङ्गुलीभिश्चकितविकसिताक्षो वीक्षते यावदेषः ।
भुवि परिहतमुद्रा भूषणानास्थ एव क्षितिप इह कनिष्ठा लक्षयामास तावत् ॥३१॥ विविधविभविभूषाभूषिताङ्गेभ्य एषा यदित() विगतशोभा दृश्यते मे कनिष्ठा ।
- अतनुरुचिरताऽसौ तन्न नित्या नितान्तं न तनुरुचिरता च प्रेक्ष्यते चिन्त्यमाना ॥३२॥ इति मनसि विचार्याऽऽश्चर्यतो वयरत्नाभरणयणमहासीद् यद् यदङ्गात् क्रमेण । - अजनि भृशकृशधि स्वीयकान्त्या वियुक्तं कनकनलिनवत् तद् भानुभासा विहीनम् ॥३३॥ जगदधिपतिमोहः स्वीयसंसारगेहे दुरितसलिलपूर्ण राज्यकुम्भं निधातुम् ।
मम शिरसि किरीटं दासरूपस्य नित्यं स्थिरयति तदपातायैव तद् दूरयामि ॥३४॥ तिलकमपि किमेतत् पूज्यपादप्रणामात् क्षितितलभवरेणुस्पर्शपुण्यान्तरायम् ।।
श्रवणयुगविभूषाकुण्डले तत् कुतो नो भवति भवतितीष चेत् ततः शस्त्रमेव ॥३५॥ किल ललितललन्त्याऽलंकृतो नो गलः स्यात् सुकृतमधुरसत्यैर्भाषितैश्चद् विहीनः।
मणिगणमयदेवच्छन्दसा नो सशोभं हृदयमर्दयमिन्द्रच्छन्दसाऽप्यन्त्र न स्यात् ॥३६॥ भवतिमिरहरं स्याद् निर्मलं ध्यानतेजो हृदि यदि विजयोख्यच्छन्दसा किं ततः स्यात्।
यदि जिनपतिपूजालंकृतिः पाणिपने कनकवलयबन्धे कोऽस्तु निर्बन्धभावः ॥३७॥ , ललन्ती गलालंकारः । २ निर्दयम् । ३ इन्द्रच्छन्दो हृदयभूषणम् । ४ विजयच्छन्दोऽपि तदेव ।
0000000000000000000000000000000000000000000000006
याद
॥३०४॥
Jain Education n
ational
For Private & Personal Use Only
IBanelibrary.org