________________
चरित्रासर्ग:
॥२९७॥
चितात्रयस्थानमुवि प्रचक्रुः स्तूपान् सुरा रत्नमयान महोचान ।
अष्टाहिका सर्वसुरा विधाय नन्दीश्वरे स्वस्वदिषं समीयुः ॥१८३॥ स्वमाणवस्तम्भगता जिनेन्द्रदंष्ट्रां विधायाऽथ चतुम्सुरेन्द्राः।
कल्पद्रुपुष्पैरनिशं सुभक्त्या संपूजयामासुरिहैकचित्ताः ॥१८४॥ 18 (मष्टापदे जिनगेहम्-) अष्टापदेऽचीकरदेष चक्री सुविस्तृतं योजनमेकमत्र ।
उस्निगन्यूतिमित जिनेन्द्रगेहं तदा वर्धकिरत्नहस्तात् ॥१८५॥ चैत्यं समं सिंहनिषद्ययाऽत्र मध्ये प्रधाना मणिपीठिकाश्च ।
पहस्तदूर्ध्वं पृथुलोऽस्ति देवच्छन्दाभिधानो मणिरत्नरूपः ॥१८६॥ स्वस्वप्रमाणाऽऽकृतिवर्णयुक्ता युगादिदेवादिजिनेश्वराणाम् ।
____ मूर्तीश्चतुर्विंशतिसंमितास्तु सुरत्नरूपा रचयांचकार ॥१८७॥ 8 पुरश्चतुर्विंशतिरत्नदीपास्तथा चतुर्विशतिरत्नघण्टाः।
___ अग्रे चतुर्विंशतिमाङ्गलिक्या-ऽष्टकानि चक्रे सुमणीमयानि ॥१८॥ द्वाराणि चत्वारि समण्डपानि व्यधापयत् षोडश तोरणानि ।
सस्वर्णकुम्भान्यथ माङ्गलिक्यान्यष्टौ चतुष्कं मुखमण्डपानाम् ॥१८९॥ पुरश्चतुर्णामपि मण्डपानां श्रीवल्लरीमण्डपकास्तदन्तः।
प्रेक्षाभिधामण्डपकास्तु तेषां मध्येक्षुवाटाः खलु वजरूपाः ॥१९॥
00000000000000000000000000000000000000000
25000000000000000000000000000000000000000000000000
॥२९७०
Jain Education In
tional
For Private & Personal Use Only
wwufnelibrary.org