________________
डरीक
५२९५॥
८
१२
Jain Education
erfoडकावद् गतबन्धनोऽयं शिवं यथाऽगाद् ऋजुना जिनेन्द्रः ।
इत्थं सहस्रा दश सद्यतीनां निःश्रेयसं शीघ्रमशिश्रियंश्च ॥ १६७॥
सुखं तदेव प्रसार सर्व लोकस्य तेषामपि नारकाणाम् ।
सर्वास्ववस्थासु सुखाय सन्तः स्युः सर्वविश्वस्य किमत्र चित्रम् ॥ १६८ ॥ (इन्द्रेण भरतस्य रोदनं शिक्षितम्- - ) दुःखेन संपूर्णहृदन्तरालश्चक्रेश्वरः सोऽत्यनरालबुद्धि: ( १ ) । गलावलग्नेन सुरेश्वरेण सुशिक्षितो रोदनमप्यऽपूर्वम् ॥ १६९ ॥
यः सर्वदा निर्मलमाङ्गलिक्यशब्दः परिप्रीतमना बभूव ।
विडम्य शोकेन विरोद्यतेऽसावहो । भवोऽयं खलु कष्टरूपः ॥ १७० ॥ सुरेश्वरेण प्रतिबोधितोऽथ शुचं मुमोचाऽऽशु स चक्रवर्ती । गोशीर्षकाष्ठानि तदाऽऽभियोगिदेवाः समानिन्युरिन्द्रवाक्यात् ॥ १७१ ॥ वृत्तां चित पूर्वदिशीह पाम्याँ व्यसां तदेक्ष्वाकु महर्षिहेतोः ।
प्रातीच्यभागे चतुरस्वरूपामन्यविहेतोर्विदधुश्च देवाः ॥ १७२ ॥
संलाप्य दुग्धाब्धिजले जिनेन्द्रदेहं विभूष्योत्तमदेह (व) दृष्यैः ।
emational
शृङ्गारयित्वा मणिभूषणैद्रोग् ननाम तत्पादयुगं सुरेन्द्रः ॥ १७३ ॥
तदेव देहं खयमात्मशीर्षे संस्थाप्य शीघ्रं नृविमानमध्ये |
इन्द्रो निचिक्षेप तथाऽन्यदेहानन्ये सुरा अन्यनुयानकेषु ॥ १७४ ॥
For Private & Personal Use Only
चरित्रम्सर्ग: ८
॥२९५॥