________________
వ
0000000000
GOOOOOOOOOOOON
पुण्डरीक- ( पुण्डरीकगणभृतः संलेखना-) प्रभुरूचिवान् यदनुभाववशाद् मम केवलोद्भवमयं स पिडित!
चरित्रम॥२८६॥
- मनसेत्यऽवेत्य यतिकोटिवृतः समलेखयत् स विधिवद् गणभृत् ॥९७8 सर्गः-८ उक्तं च-(संलेखनास्वरूपम् -) "सर्वोन्मादमहारोग-निदानानां समन्ततः । शोषणं सर्वधातूनां द्रव्यसंलेखना मता ॥९८॥ यो राग-द्वेष-मोहानां कषायाणां तु सर्वथा। नैसर्गिकट्विषां छेदो भावसंलेखना तु सा " ॥१९॥ प्रतनूचकार स निजां च तनूमपि रोष-तोष-मदनप्रभृतीन् ।
अथ साधुकोटिभिरसौ वृतो गणनायकः प्रविदधेऽनशनम् ॥१०॥ अपरेधुराद्यजिनपः स्वगणेश्वरकेवलोदयकृते सदसि ।
विमलाचलस्य महिमानमिति प्रततान मानवधियोऽप्यतिगम् ॥१०१॥ ( अनशनं कृतवतः पुण्डरीकस्य कैवल्यम्-) भवमोहसंशयतमच्छिदुरात् भृशशुद्धमुक्तिपदवीविदुरात् ।
प्रभुवाक्यतो गणभृतो निभृतः प्रससार केवलमहो सुभृतम् ॥१०२॥ किल केवलावरणहेतुचयं स जिनस्तथा किल विवेचितवान् ।
_ यतिपक्षकोटिभिरयं प्रकटः प्रहतोऽवगत्य सकलोऽपि यथा ॥१०॥ यतिपञ्चकोटिभिरमुष्य विभोः शचि सर्वथाऽप्यवगतं वचनम् ।
कथमन्यथाऽनघमघच्छिदुरं तदमीषु केवलमहोऽभ्युदितम् ॥१०॥ वेदकं विदुरम् ।
॥२८६॥
soooooooooo
O00000000000200.woCL300000
Jain Education Inter
na
For Private & Personal Use Only
nelibrary.org