________________
गण्डरीक
परिणय
॥२७६॥
सर्ग:-८
00000000000000000000000000000000000000000
गजगोऽथ गोमुखसुरो वरकृजपमालिकाभूदपसव्यकरः।
पुरतः स्थितो विपुलसव्यकरद्वयबीजपूरफल-पाशधरः ॥ १८ ॥ गरुडस्थितिः कनकपिङ्गतनुः शर-पाश-चक्रभृदिदंवरदा ।
इति वामकैरथ सुदक्षिणकैर्धनुरङ्कुशा-शनि-सुचक्रधरा ॥१९॥ सुकृतस्थभव्यजनविघ्नहरा जिनराजशासनविभावकरा।
पुरतो रथस्य भविषु प्रचुरीकृतसंमदा स्थितसुचक्रसुरी ॥२०॥ अथ हस्तिमल्लमधिरूढवता त्रिदशेश्वरेण सुरलक्षयुजा।
सह चक्रभृन्नृपसहस्रवृतः गजगोऽगमज्जिनरथानुगतः ॥२१॥ अथ पञ्चशब्दमुखरे गगने जयराववादिनि सुबन्दिजने।
सुरगीतलास्यसुविलास्यजगज्जनताऽऽस्यहास्यमहसि प्रसते ॥२२॥ धरणीभृतः पविभृतश्च तदा युगपद् महादविणदानभरैः।
अदरिद्रतामुपगते जगति प्रचचाल सोऽथ जिननाथरथः ॥२३॥ विनमः सुताप्रभृतयो दयिता भरतेश्वरस्य सुकृतेषु रताः ।।
सहिता विमानचयमुच्चशचीप्रमुखाऽमरीभिरिह चारुरुहुः ॥२४॥ भरतेशितुः प्रथमसंघपतेरमरीगणाः शुचिगुणानगणाः।
१ प्र० स्थागतः । २ इन्द्रस्य ।
0000000000000000000000OMoocomooooooo00000000000
॥२७१०
Jain Education
mational
For Private & Personal Use Only
Mw.jainelibrary.org