________________
चहब.
POPSOOOOOO
सर्गः-७
त्रिंशता सुवणिजा ससहस्रैः संयुतो यतिरजायत तत्र ॥१८३॥ ५२७२॥ ( देवदत्तवपूरपि विरक्ता--) तहधूरपि विधूय विमोहं साधुराजमवनम्य विनीता।
प्राह भोगसुभगत्वविकल्पच्छेदनानि वचनानि विवेकात् ॥१८४॥ आत्मदेहपरिपोषनिमित्तं हन्ति हन्त खलु जन्तुरनेकान् ।
निर्मलानि मलिनानि विधत्तेऽप्यात्मदेहविमलीकरणाय ॥१८५॥ आत्मरूपभृशगवितचित्तोऽन्यान् गुरूनपि हसेत् कुशरीरान् ।
देहमोहितमहादुरितौधैर्बाध्यते परभवेऽपि हि जीवः ॥१८६॥ तत् प्रभो ! प्रतिभवं तनुबन्धादेव दुष्टदुरितानि भवेयुः।
तद् ममाऽनशनमेव भवन्तः संदिशन्तु वितनुत्वविधाने ॥१८७॥ ऊचिवानथ मुनिनु वत्से ! पूर्वलक्षमितमस्ति तवाऽऽयुः
नाधुनाऽनशनयोग्यशरीरा त्वं सुदुस्तपतपसुतपस्य ॥१८८॥ ( पुण्डरीकविहारः-- ) एवमेष गणभृत् प्रतिबोध्य सोऽभवनिगमिषुविमलाद्रिम् ।
तावदेष मृगवेषसुरोऽत्राऽभाषत प्रभुममुं प्रणिपत्य ॥१८९॥ संमतीह भगवन् ! भरतेशेनाऽन्वितसकलसंघयुतेन ।
श्रीयुगादिजगदीश्वर एना प्रावयिष्यति भुवं स्वविहारात् ॥१९॥ 18 अत्षेत्थं मुदितमना मुनीश्वरोऽयं तस्थौ तैर्यतिभिरभित्रितः सरैश्च ।
O OOOOOOOOOOOOOOOO
00000000000000000000000000000000000000000000000
IR VORU
Jain Education
rational
For Private & Personal Use Only
wamlainelibrary.org