________________
पुण्डरीक
॥२६१॥
४
“
१२
(सजनस्वभाव:-) हेमन्ते सलिलं वसन्तसमये दध्यादि दौष्ट्रय भजेत् चञ्चचन्दन - सान्द्रचन्द्रकिरणस्पर्शो वियोगे पुनः। शीतं स्नेहयुतं यशः सुरभितं माधुर्यधुर्य सुखं सन्तः संततमेव हन्त युगपद् यच्छन्ति संगान्निजात् ॥ ९८ ॥ दक्ष ! चित्तकपिबन्धनदाम धर्मबुद्धिललनारतिधाम । सर्वदा सुवचनैरभिरामः सज्जनो जयति पूरितकामः ॥ सज्जनस्य तव वागुपरोधाद् दुर्जनावपि भृशं नहि हन्मि ।
किन्तु देशमखिलं मम हित्वा गच्छतां द्रुतमिमावतिपापौ ॥ १०० ॥
( तयोर्विषदायकयोर्देशाद् निर्वासनं कृतम् - ) इत्यवाप्य वचनं वसुधेन्दोस्तौ ततो नगरतस्तलरक्षः । दुर्बलः शबलितौ जनलक्षैर्निन्दितो स निरसारयदाशु || १०१ इतश्च— (खेचररूपचन्द्र-मद्द सेननृपयोः समागमः - ) कर्णतर्णकमदाय सुदु (र्व ) त्वं (?) चित्तषट्पदमुदं परपद्मम् । आविरास सरसं सुरमार्गात् किङ्किणीक्वणितमद्भुतमारात् ॥ १०२॥ कुन किङ्किणिगणक्वण उच्चैर्यावदेवमवदन्नरदेवः । तावदेव गगनेऽत्र विमानान्याविरासुरमलप्रतिभानि ॥ १०३ ॥ एकतोऽतिगुरुतोऽथ विमानाद् रूपचन्द्र इति खेचरराजः ।
वेगतः क्षितितलं समुपेत्याऽऽलिङ्गति स्म नृपतिं महसेनम् ॥ १०४॥
( खेचरेण स्वपुत्री प्रियमित्रा दत्ता गजाय - ) जीर्णजैन भुवनोद्धरणेन भूपते ! मदुपकारकरोऽयम् । सोदरी महमतः प्रियमित्रां दातुमागत इहाऽस्मि गजाय ॥ १०५ ॥
एवमस्तु' नृपतेरिति वाक्यं प्राप्य खेबरषतिः प्रमदाढ्यः ।
Jain Education national
निर्ममौ किल तयोः सुविवाहं कान्तिभिः कलितयोर्ललिताभिः ॥ १०६ ॥
For Private & Personal Use Only
परिम्
सर्गः - ७
॥२३१॥ jainelibrary.org