________________
पुण्डरीक
॥२५९॥
४
१२
( खेचरो रूपचन्द्रः - ) रूपचन्द्र इति खेचरराजोऽभ्येत्य तं यतिवरं प्रणिपत्य |
पृष्टवान् मम यतो रजताद्रि-स्वामिताऽजनि कुतोऽद्भुतपुण्यात् ॥ ८२ ॥ ( रूपचन्द्रः श्रीधरजीव:- ) साधुराह भवता जिनगेहं श्रीधराख्यभवमाश्रयताऽग्रे | कारितं सुगुरुशङ्खपुरे यत् तेन तेऽजनि विभुत्वमुग्रम् ॥८३॥
तत् क्रमेण पतयालु च जीर्ण त्वद्वयस्यतनुजेन गजेन ।
उद्धृतं निजधनव्ययमुग्रं संविधाय विधिना विविधेन ॥ ८४ ॥
हा !! ह ! ! हाय सुकृती स गजोऽपि व्याहतोऽस्ति गुरुणा गरलेन । प्रायशो रुचिरवस्तुषु विघ्नं जायते न हि कुवस्तुषु विश्वे ॥ ८५ ॥
साधुवाक्यमिति सोऽपि निशम्य क्ष्मापतिर्दुलमुवाच वचस्वी |
बन्धुरेव मम स व्यवहारी बन्धुरेण सुकृतोद्धरणेन ॥ ८६ ॥
( विजयादेवदत्तो मयूर:-) तुष्टया विजयया मम देव्याऽस्त्यर्पितो गरहरः सुमयूरः । तं गजस्य विषविघ्नविनाशे प्रेषयामि मुनिराज ! जवेन ॥८७॥
इत्युदीर्य स तु दिव्यमयूरः प्रेरितः खचरभूपतिनाऽत्र ।
आगतोऽतिजवतो ग (नि) जदेहात् संजहार विषमं विषमान्यम् ॥८८॥ पृष्टमत्र च मया मुनिपार्श्वे केन तस्य गरलं ननु दत्तम् ? ।
साधुराह तददायि गजस्य प्रौढवान्ववयुगेन तु कोपात् ॥ ८९ ॥
For Private & Personal Use Only
Jain Educationmational
0000000
चरित्रस्सर्गः - ७
॥२५९॥
jainelibrary.org