SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥२५६ ॥ ४ १२ pcooooc 2000000000 ( तपसः पारणे भोजनोत्सव :- ) पारणस्य दिवसेऽथ गजोऽयं धर्मिणो नु विजनानभिमन्त्रय । बन्धुवर्गमखिलं च गृहे स्वेऽभोजयद्- विविधभक्तिभरेण ॥५८॥ (ज्येष्ठभ्रातृभ्यां दत्तं विषं गजस्य - ) पारणेऽथ विहिते निजपित्रा भोजनं विदधतोऽस्य गजस्य । भ्रातरौ गरलमिश्रित घोलं भाजने निदधतुर्हदरोषी ॥ ५९ ॥ गर्वतः श्रुतमहो ! कृपणत्वात् श्रीभरः सुमहिमाऽनृतवाक्यात् दम्भतः सुकृतिता नृपसेवा दृष्यते ननु यथाऽतिजडत्वात् ॥ ६० ॥ ( पीतविषमिश्रघोंलो गजो विचेता:-) दूषितं गरलतः किल घोलं तत् तथैव निपपौ स च यावत् । म्लानघूर्णितमुखा -ऽङ्क्षिपयोजस्तावदेव समभूद् गतचेताः ॥ ६१ ॥ सर्वसाधुहृदयानि गृहीत्वा गच्छति द्रुततरं परलोके । आकुलः कलकलः किल लोकस्याssकुलस्य तदैव प्रससार ॥ ६२ ॥ तत्र जाङ्गुलिक - मान्त्रिकवैद्यान् यावदाह्वयति सज्जनवर्गः । Jain Education national तावदेष विनिमीलितनेत्री नीलमूर्तिरपतद् वसुधायाम् ॥६२॥ बन्धुवर्गसहितो वसुमित्रः श्रेष्ठिराड् विपुलदुःखभृतोऽन्तः । रोदिति स्म किल तद्गुणरत्नश्रेणिमेष गणयन्निव साराम् ॥६४॥ चारुता चतुरता प्रशान्तता धर्मिता प्रणयिता पवित्रता । भोगिता सुभगता गुणज्ञता दानिता भवति गीति याति ही ॥ ६५ ॥ १ निजपित्रा सह । २ अक्षिकमलम् । ३ सप्तम्यन्तम् । For Private & Personal Use Only चरित्रम्सर्ग: ७ ॥२५६॥ ainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy