________________
पुण्डरीक॥२५०॥
DooGORS000000000000000000000000000000000doa
औषधेषु विविधेषु तदङ्गे लेपितेषु यहुशोऽपि सुवैद्यः ।वृद्धिमेव तद्गाद् दुरभित्वं पापिनीव नृपतावपकीतिः॥ चरित्रम् विस्तृतेऽखिलपुरेऽथ कुगन्धे तां नरेन्द्रवचनेन वधूटीम् ।मुक्तवान् द्रुतमरण्यकृतेऽहं धामनि प्रचुररक्षकयुक्तम्॥ तदिनाद् मम सुतोऽद्भुतदुःखात् त्यक्तचारुशयना-ऽऽसन-भोज्यः।
वत्सराष्टकमसाविति यावन्मलानघूर्णनयनोऽतिनिनाय ॥१२॥ किं बहना? सा कुगन्धतनुरस्ति वधूः किं स्नेहवान् मम सुतश्च किमस्याम् ।
त्वं प्रसद्य मनसि स्थितमद्य संशयं हर तमोहरमूर्ते ! (अवदत् पुण्डरीकः ) सोऽवदन्निजकृतश्रवणाय तामिहाऽऽनय वधू व्यवहारिन् ।
ऊचिवानयमथाऽतिकुगन्धामानयामि कथमत्र सभायाम् ॥१४॥ श्रेष्ठिना निगदिते वच एतद्धषितो हरिणवेषसुरोऽसौ । पुण्डरीकचरणौ स्नपयित्वा दिव्यनीरभरमार्पयदाशु॥४ स्वां स्नुषां मुनिपदस्नपनेनाऽनेन सिश्च दुरभित्वविभित्यै ।
सोऽमरस्तमनुशिष्य मुदैवं श्रेष्ठिनं परिषदो विससर्ज ॥१६॥ (दुरभिगन्धशरीरा विमला श्रीपुण्डरीकपदस्नपनेन सुगन्धशरीरा सती तत्सदसि आगता-) पुण्डरीकपदनीरनिषेकात् स्वां स्नुषां शुचिसुगन्धशरीराम्।
आनयत् सदसि तत्र धनोऽसौ पूर्वजन्मकृतसंश्रवणाय ॥१७॥ (आललाप पुण्डरीकः- ) दु:खितां कृतनमस्कृतिमेतां कोरकीकृतकरां विनिविष्टाम् ।
संनिरीक्ष्य विशेषदयालुराललाप कलंगीमुनिराजः ॥१८॥ १ सप्तम्यन्तम् । २ क्रियाविशेषणम् । ३ मधुरभाषायुतः।
॥२५॥
OOOOOOOXOoOooooooOOO
Jain Education
national
For Private & Personal use only
www.tainelibrary.org