________________
पुण्डरीक
॥२३८॥
४
८
१२
0000000000GʊDD. 3.
कुमारः प्रोचिवान सूर्यः संपूर्य वसुभिर्भुवम् । व्रजत्यस्तं हहा दैवं सदसत्स्वपि दुःखदम् ||४३५ || अहो ! लब्ध्वा पूर्व किल विबुधनाथस्य ककुभं जगत्युचैर्भूतो दिशमभिलषन् यज्जडपतेः । मरुन्मार्गात् सूरोऽप्यथ पतति तन्निर्मलकुलां स्त्रियं हातुः पातो ध्रुव इति वदन् विश्वमिव भोः ! ॥ ४३६ ॥ विश्वे पश्यति विश्वेऽस्मिन् स सहस्रकरोऽपि हि । ममज्ज पश्चिमाम्भोधौ दिनान्ते केन किं भवेत् ॥४३७॥ पाशपाणिदिशाऽम्भोधौ पात्यमाने खगे खगाः । शब्दायन्ते स्म वृक्षेषु मिलित्वा दुःखिता इव ॥ ४३८ ॥ अस्तंगते दिवाना काष्टास्वन्धमुखीषु च । पक्षिणोऽमी अभुञ्जाना धन्या अज्ञानिनोऽपि हि ॥ ४३९ ॥ राक्षसाः प्रेत-भूताया म्लेच्छाश्चाश्नन्ति निश्यऽपि । स्वर्गिणः पितरश्चैव धर्मिणो मनुजास्तु न ॥ ४४० ॥ दूरमेष यथा सूरस्तमः पूरस्तथा तथा । श्रियं हरति पद्मानां निनथः स्यात् सुखी हि कः ? ॥ ४४१ ॥ रत्नैः प्रदीपै रविणेन्दुना च क्षतं तमः स्यात् पुनरक्षितं हि ।
यथा जिनेन्द्रेर्मथिता मदाद्या अपि त्रिलोकीं तु पराभवेयुः ॥ ४४२॥ अथो दिवाकरोऽवोचद् विधायोद्धव स्वतर्जनीम् । कुमार ! पुरतः पश्य प्राच्यां चन्द्रोऽभ्युदेत्यसौ ॥ ४४३|| प्रभालोकं कुर्वन् रविरवनितापं यदतनोत् तमिस्रा शीताऽपि प्रचुरतिमिरं यच कुरुते ।
द्वयोर्दोषावेतावमृतरुचिरंषोऽप्यपहरत् कलङ्कं स्वं हर्तुं प्रभवति न तत् क्षीयत इव ॥ ४४४॥ अथो गुणाकरोsवोचच्छ्यनीये नृपाङ्गज ! । सत्वरं कुरु विश्रामं यथा याति तव श्रमः ॥ ४४५ ॥ तथाऽकरोत् कुमारोऽपि स्मृत्वा पञ्चनमस्कृतिम् । संवाहयांचक्रतुश्च नावथो तं यथासुखम् ॥४४६॥
१ काष्ठादिक ।
Jain Education International
For Private & Personal Use Only
06088
∞∞∞∞∞∞∞∞∞
'चस्त्रिम्सर्गः ६
॥ २३८ ॥ inelibrary.org