SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ 53030 ॥२३०॥ ROOOOOOOOO OOOOOOOOOOOOOOOOa यता-देवा यदि प्रचुरधर्मसुधान्धुतुल्यान् रक्षन्ति नो नरवरान् बहुदानकुल्यान् । चरिणाम तेषां प्रभावतरवोऽपि हि पापतापात् शुष्यन्त एव सकला जगतीतले तत् ॥३२॥ ४ सर्गः-६ अतः, यो द्रव्यतश्चरिततः श्रुततस्तपस्तः श्रीजैनशासनविभासनमातनोति । सः सर्वदैवतगणोऽस्य हि सर्वदैव रक्षां करोति दुरितं च तिरस्करोति ॥३२६॥ ( तुष्टो धरण:-) अतस्तुष्टोऽस्मि किं तुभ्यं ददामि पुरुषोत्तम !। भूपभूरब्रवीजन-ध्यानमस्तु मयि स्थिरम् ॥ (भुवनभानोः सप्तनरकदिदृक्षा-) तथाऽपि यदि तुष्टोऽसि नागराज ! ततोऽधुना। दर्शय श्रुतिनिर्दिष्टान् नरकान् सप्त सांप्रतम् ॥३२८॥ धरणः प्राह हे वत्स! किमर्थं तान् दिदृक्षसि । कुमारो न्यगदत् पाप-फलजिज्ञासया प्रभो! ॥ बभाषे धरणस्तावद् वाक्यैस्तान् प्रथमं शृणु । दुःखितैर्जन्तुभिः पूर्णान् शक्नोषि हि न वीक्षितुम् ॥३३०॥ तथाहि- ( नरकवर्णना-) रत्नप्रभाख्ये त्रिंशल्लक्षास्तिष्ठन्ति नरकावासाः। पञ्चविंशतयो लक्षा नृपसूनो! शर्करम नरके ॥३३१॥ पञ्चदशलक्षयुक्तस्तार्तीयो वालुकमभो नरकः । पङ्कप्रभश्चतुर्थों दशभिलक्षयुतो नरकगेहै: ॥३३२॥ धूमप्रभस्त्रिलक्ष्या तमप्रभः पञ्चहीनलक्षेण । पञ्चभिरेव तु गेहैर्युक्तोऽस्ति महातम प्रभो नरकः ॥३३३॥ 8 एवं च चतुरशीतिषु संस्थिता नरकवासलक्षेषु । सततं विततं दुःखं दुष्कृतिनो जन्तवो ह्यनुभवन्ति ॥ है तथाहि-भायो-पत्योरनुजीवि-स्वामिनोर्गुरु-शिष्ययोः। श्वश्रू-वध्वोर्मित्रयोश्च ये विभेदं हि चक्रिरे । तबियोगक्षणमितान् वारांस्तेषां नृणां तनुः। बड्दा शिरः कवृक्षे क्रकचैः प्रविदार्यते ॥३३६॥ ॥२३०॥ 0000000000000000000000000 onlod Jain Education de rational For Private & Personal use only Mainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy