SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ॥२२६॥8 acc00000000000000000000000000000000030030050000000 बीडितः पीडितश्चेत् खचित्ते स नृपाङ्गजा। तावदेको नागनारी पावं यान्तीं व्यलोकत ॥२७॥ (नागनगरे महोत्सवः-) ४ सर्गः-६ अथो वेगेन धावित्वा तत्पार्श्व पृष्टवानिति । अम्ब! कि नगरेऽमुख्मिन् स्युः सदेग्महोत्सवाः ॥२७१॥ मा प्राह स्वच्छ! हे वत्स! यन्महोत्सवकारणम् । सकर्ण! दत्तकर्णस्तत् सर्वमाकर्णय द्रुतम् ॥२७२॥ (वासुकिः-) अत्र पातालपाताऽस्ति शेषाख्यो धरणेश्वरः। तस्य राज्ये प्रधानश्च राजा श्रीवासुकिर्वरः॥ ( महापद्मो नाग:-) स वासुकिःपुरेऽमुग्मिन् पतिःपातितरां प्रजाः। तेन मित्रं महापद्मो नागोऽस्ति प्रेषितो भुवि॥8 कंचिद् भुवनभान्वाख्यं नरं केनापि हेतुना। आनेष्यति तथा पनः प्रपञ्चेन गरीयसा ॥२७॥ वसुधावासिनस्तस्य पुरस्याऽस्य समागमे । सप्ताहमुत्सवान् कर्तुमाज्ञा राज्ञा मुदा ददे ॥२७॥ नरोत्तमस्य तस्याऽय समालोकाय कौतुकी। पौरलोकः समस्तोऽपि समस्त्युच्चप्रदेशगः ॥२७७॥ अतो गत्वात्मनो गेहं श्रित्वोचो चन्द्रशालिकाम् । अहमालोकयिष्यामि तं कीयालोकनिर्मलम् ॥२७८॥ इत्युक्त्वा सा ययौ नारी स्फारीकृतपदास्पदा । दध्यो कुमारः केनाऽहं कार्येणाऽऽनायितो बलात् ।।२७९ इतश्च- कर्पूरपूरगौराज शशाकांशुसितांशुकम् । राजहंससमारूढं फणाभिर्दशभिर्युतम् ॥ २८० ॥ सव्यहस्तसुविन्यस्त-पीयूषकलसं पुरः। श्रीवासुकि ददाऽसावायान्तं वन्दिभिः स्तुतम् ॥२८॥ तत्समीपे च-राजपप्रभं सप्त-फणं पीताम्बरावृतम् । जपमाला-शङ्ख-कुम्भ-मुद्राख्यं चतुर्भुजम् ॥२८२॥ ( नागराज:-) नागराजमनन्ताख्यं गरुत्पतिसमाश्रितम् । वीक्षामास समायान्तं कुमारो विस्मयाकुलः ।। (तक्षकः-) दक्षिणांसे न्यस्तदण्डं वामे च स्थितकुम्भकम् । शोणाङ्गवस्त्रं सोऽपश्यत् तक्षकं वृषवाहनम् ॥ ॥२२६॥ CONNOOOOOOO Jain Education est national For Private & Personal Use Only ww.jainelibrary.org.
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy