________________
पुण्डरीक
॥२२५॥
४
१२
( भुवनभानुना उरगो गृहीतः - )
सहसा साहसाश्लिष्टो रंहसा स महीयसा । धावित्वा स्वच्छ चित्तस्तं छेकः पुच्छे गृहीतवान् ॥ २५७ ॥ कुमारं पुच्छसंश्लिष्टमत्याविष्टः स सर्पराट् । प्रससर्प प्रवाहेऽथ नद्यास्तस्या हि संमुखे ॥ २५८ ॥ जलकान्तमणी मय्यास्तस्था मूतैः प्रभावतः । संमुखोऽप्यम्भसां भारी द्विधारूपो जवादभूत् ॥ २५९ ॥ सर्पस्य घृतदर्पस्य लाङ्गूलमवलम्ब्य सः । अस्पृष्टनीरो धीरोऽयमतीयार्थं रयान्नदीम् ॥ २३० ॥
यतः - सा चन्द्रशिशिरा नदी तिष्ठति निर्मला । तस्मिन् विवेश सावेशः प्रवरे विवरे विषी ॥२३१॥ ( धृतसर्पों भुवनभानुः पातालं प्रविवेश -- )
कुमरोऽपि समं तेन यावत् पातालमाविशत् । तावद् ददर्श रत्नौघ - रम्यहम्यै पुरं पुरः ॥२६२॥ कन्दर्पजववारीभिर्नारीभिः पूर्णवीथिकम् । स्फीतैर्गीतैः संशृङ्गारशृङ्गाटकमितस्ततः ॥२३३॥
( नागनगरम् - ) कर्णपीयूषकवलैर्धवेलैः पूर्णमन्दिरम् । स नागनगरं प्रेक्ष्य यावज्जातोऽन्यमानसः ॥ २६४ ॥ तावत् स भुजगो दिव्यशक्त्याऽस्य भुजगोचरम् । प्रविहाय विहायस्थो भूत्वाऽदृश्यत्वमीयिर्वान् || २६५ ॥ मूर्ति श्रीवीतरागस्य गते हृत्वा भुजंगमे । मुद्गराहतवत् स्थित्वा क्षणं सोऽथ व्यचिन्तयत् ॥ २६६ ॥ अहो ! ममात्मना पूर्व कोहरा दुष्कर्म निर्ममे । येन श्रीवीतरागस्य मूर्योऽप्यऽस्मि वियोजितः ॥ २६७॥ येनाsहिना हि मेsनाँयि नायकः श्रीजिनेश्वरः । तेन बन्धुत्वमाश्रित्य कथं नीतं न जीवितम् १ ॥ २६८ ॥ देवतावसरं स्वं यो रक्षितुं न क्षमः क्षितौ । तस्य मे धिग् धीरत्वं क्षत्रव्रतकलङ्किनः ॥ २६९ ॥
१ पुच्छम् । २ जगाम । ३ सर्पः । ४ कन्दर्पस्य जवं वारयित्रीभिः । ५ भाषायाम्-धोळ ६ जगाम । ७ नीतः।
Jain Education national
For Private & Personal Use Only
00000000000
परिश्रम्:
सर्गः - ६
॥२१५।।
jainelibrary.org