________________
पुण्डरीक
चरित्रम्.. सर्ग:-६
000000000000000000000
नीत्वेति श्वपचवचस्तस्थौ स जगतीशजः। श्रीवीतरागं सर्वज्ञं मनसा संस्मरन्नरम् ॥१७०॥ ॥२१८॥ ४ (कश्चिद् योगी-) अथाऽस्मिन् समये कोऽपि योगी कम्प्रतनुभृशम् । कुमारपार्श्वमायासीद् रक्षेति वचनं वदन ॥
कुमार: प्राह मा भैषीभौं योगिन् ! वद किं भयम् । बभाषे प्रस्खलद्वर्ण वर्णी स पृथुवेपथुः ॥१७२॥ सुदुस्तपं तपस्तेपे षण्मासान् मन्त्रसिद्धये । किन्तु ब्रह्मवतं प्रान्ते मया खण्डितमेकदा ॥१७३॥ सिद्धिलोभादहं कृत्वा सत्त्वमत्र समागतः। आहूतावाहितायां कोऽप्याविरासीच राक्षसः ॥१७४॥ पुष्टा गुरूपदिष्टाश्च मन्त्रास्तत्वासहेतवे । स्मृता अप्यफला जाताः खण्डितब्रह्मणो' हि मे ॥१७॥ यतः- (ब्रह्मचर्यवर्णना-) मन्त्र-तन्त्र-वरयन्त्रसमूहा औषधानि च यतः सुतपांसि ।
वाञ्छितानि ददतेऽत्र परत्र ब्रह्म तद् विजयतां व्रतराजः ॥१७६।। तथाच, कीर्तियतः स्फतिमियति विश्वे यतः शुचिः स्यादिह देहमेतत् ।
यतश्च मोक्षः स भवेत् परत्र तद् ब्रह्म जीयादखिलव्रतेन्द्रः ॥१७७॥ अथ, राक्षसो भुजमेक मे बुभुजेऽहं च पीडितः। नंष्ट्वा त्वदीयं शरणं स्वरक्षायै समागमम् ॥१७८॥ कुमार: मोचिवान् शीघ्र स्वां कन्था मे समर्पय । यथा विधाय त्वद्रूपं राक्षसं प्रीणयामि तम् ॥१७९॥ योगी प्रोचे कथं चारुवपुस्तस्मै प्रदास्यते। धर्मा-ऽर्थ-काम-मोक्षा हि संभवन्ति यतः स्फुटाः॥१८०॥ ऊचे कुमारो भो योगिन् ! परार्थे प्राणदानतः। धर्मा-ऽर्थ-काम-मोक्षास्ते साधिता एव सर्वथा ॥१८॥ किंच, नि:श्वासेन महोद्भूत-ज्वालया लक्षितो मया। पश्याऽयं राक्षसोऽभ्येति तद् योगीन्द्र! द्रतं द्रव ।
3000000000
2000000000000000000000000000000000000000
१ खण्डितब्रह्मचर्यस्य ।
18 ॥२१॥
Jain Education A
ational
For Private & Personal use only
ainelibrary.org