________________
दयान्तर्दयां धृत्वा दाक्षिण्यामृतवारिधिः। कुमारस्तस्य तं ग्रन्थि जग्राह निजपाणिना ॥१२९॥ चरित्र गतेऽथ पुरुषे तस्मिन् कुमारे च निषेदुषि । तरौ तत्र विरौति स्म काकः क्रूररवो रयात् ॥१३०॥ 8. सर्गः-६
कुमारश्चिन्तयामास कुरुतं कुरुते ह्यसौ । कष्टं तिष्ठति मे पुष्टं कथमस्मादपीह किम् ? ॥१३१॥ 18 ( काकहृतं स्वर्णम्-) इत्थं गूढविचारेण गूढचित्तो नृपाङ्गजः। शीघ्रं वायसवित्रास-कृते तं ग्रन्थिमक्षिपत्॥१३२॥
तदैव स्मृतिभाग याव-दुत्थायाऽऽशु विलोकते । तावत् कुत्रापि न प्राप सम्यक्त्वं पापवानिव ॥१३३॥ 8 अलब्ध्वा तदसौ स्वर्ण राजसूनुर्व्य चिन्तयत् । सूचित काकशब्देन यत् कष्टं तदुपस्थितम् ॥१३४॥
कुमारे चिन्तयत्येवं पुरुषः स पुरात् पुरः। समागत्य प्रमोदेन व वदूकोऽवदद् वचः ॥१३॥ देव! त्वदीयसाहाय्यात् कुटुम्ब सकलं.निजम् । गृहं च ज्वलनादस्मादक्षतं रक्षितं मया ॥१३६॥
(भुवनभानोश्चिन्ता-) विजयस्व चिरं तत् त्वं सर्वोरकृतिकारकः । समर्पय मदीयं च स्वर्ण स्थपंनिकाऽऽहितम् ॥8 18 उक्ते व्यक्तेऽथ तेनेति चिन्ताभूर्भूपभूरभूत् । याचतोऽस्याऽधुना किं किं वचो वच्मि वचस्यपि ॥१३८॥8
काकस्य संमुखो ग्रन्थिः क्षिप्तः प्रत्येति को वचः । पचपीथमसंभाव्यं सत्यं वक्ष्ये तथाऽपि तु ॥१३९॥४
यतः- ऊचुषो वचनं सत्यं तस्थुषो धर्मिणां पथि । यद् भाव्यं तद् भवत्वेवं सुखं चाऽप्यसुखं मम ॥१४०॥४ 8 एवं सुचिन्त्य चित्तेन त्रपापूरप्लुताक्षरम् । स्वर्णवृत्तं यथावृत्तं जगाद स विषादभाक् ॥१४॥
अथ, रुक्षाक्षरं बभाषेऽसौ पुरुषः परुषाकृतिः। भो ! भोः ! स्थपनिकामोषस्त्वयाऽपि विहितः कथम् ॥ स्वादशा अपि चेद् द्रव्यं मादृशानां हि गृह पाते । ततो जगति कः कस्य विश्वेऽस्मिन् विश्वसिष्यति ॥१४३॥8 १. अपशब्दम् । २ भाषायाम्-थापण । ३ चिन्तास्थानम् ।
॥२१५॥
SCOOOOOOOOOOOOOOOL00000000000000000OMococcool
BOOL-000000000000000000000000000000000
00000000
Jain Education de mational
For Private & Personal Use Only
ainelibrary.org