________________
पुण्डरीक
॥२१४॥
80500000000000000000000000000000000000000000003
(सर:-) गच्छन्नथ पथि प्रौढवृक्षश्रेणिविराजितम् । सर: सरसमम्भोधि-सदृशं स हशा पपौ ॥ ११४॥ ततश्च- प्रक्षाल्य चरणौ जैनमूर्ति नीत्वा नृपाङ्गजः। पपावपापः पानीयं पूत्वा पूतेन वाससा ॥११५॥
समेत (प्रादुर्बभूव राक्षसी-). पीत्वा नीरं सुतृप्तोऽन्तर्यावद् व्यावर्तते ततः। तावत् प्रादुर्बभूवाऽग्रे राक्षसी भीषणक्षणा ॥११६॥ निजगाद कुमारं सा रौद्ररावाऽथ राक्षसी। भो! युद्धं कुरु शीघ्रं वा मुश्च शस्त्रं ममाग्रतः ॥११७॥ इति श्रुत्वा रणायैष यावदुत्तिष्ठते हठात् । तावत् तस्य करात् खड्गं हत्वा खे राक्षसी ययौ ॥११८॥18| हस्तं वीक्ष्य विशस्त्रं स्वं विहरतोऽन्तर्यचिन्तयत् । अहो ! अलक्ष्म्या देव्याऽयं प्रभावो दर्शितो निजः ॥११९४) लक्ष्म्या वासो हि स्वगः स्यात् गतः सोऽद्य कराद् मम । अथवा बाह्यभावैः किं यातैः सत्त्वं प्रयातु मा॥४ निश्चित्येति कुमारोऽयं धीरधीरद्भुतप्रभः। अचलाया विलोकाय सहेलमचलत् ततः ॥१२१॥ (वसन्तपुरम्---) अथाऽसौ भूयसी भूमि भ्रान्तः श्रान्ततनुभृशम् । वसन्तपुरपार्श्वस्थमश्वत्थतरुमाश्रितः॥१२२॥ (दावानल:-) छायायां चलपत्रस्य स्थितो यावत् स निश्चलः । तावत् तत्र पुरे वहनिप्रदीपनमभूद् बहु ॥१२३॥ दिवा तारकितं व्योम स्फुलिङ्गैः स्फुटितैस्तदा । श्रुटितवालजालश्च चक्रे सूर्यशतान्वितम् ॥१२४॥
( श्यामाको नरः-) अस्मिन्नवसरे कोऽपि स्थूलः श्यामाङ्गकुत्सितः। नरो नगरतोऽभ्येत्येत्याऽऽतुरः प्राह भूभुजम् ॥१२५॥ कोऽपि सत्पुरुषोऽसीति वेभि सुन्दरदेहतः। स्वर्णपञ्चशतीग्रन्थिममुं पार्श्व गृहाण तत् ॥१२॥
कुमारो न्यगदद् भद्र। स्यादर्थोऽनर्थदो ध्रुवम् । ममाऽधुना विशेषेण दैवं हि विमुख यतः ॥१२७॥ 8 पुरुषः सोऽवदद् विश्व-रन्धो ! बन्धोऽयमस्ति मे । चेत् त्वं गृहाण तद् वने रक्षामि स्वकुटुम्बकम् ॥
5600-30000000000000000000000000009
निधिसो हि खहरतोऽति
Jain Education Rational
For Private & Personal Use Only
wwantainelibrary.org