SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Peoporpooc000000000000OOOOOOOOOOOOOOOOOO षष्ठः सर्गः। सर्गः-६ ( श्रीपुण्डरीको गजपुरं ययो-) श्रीपुण्डरीको राजर्षिहर्षितैस्तैमहर्षिभिः। समन्विनसुरैस्तैश्च विजहार विभुर्भुवम् ॥१॥ श्रुतक्रमेण संक्रामन् क्रमाभ्यां क्रमतो मुनिः । ययो:गजपुरं देवैः सहितः सहितोऽङ्गिबु ॥२॥ इतश्च (सोमयशा नृपः-) श्रीबाहुबलिनः पुत्रस्तत्र सोमयशा नृपः।ससैन्योऽत्र तदाराज-पाटीमाटीकते स्म सः॥8 पश्चलक्षमितैर्देव-विमानैः व्योमनि स्थितैः । मुनिमायान्तमज्ञासीत् पुण्डरीके स भूपतिः ॥ ४ ॥ ततः सोमयशा भूपश्चित्ते चिन्तितवानिति । अहो! अंहोऽखिलं क्षीणमहो! मेऽद्य महोदयः ॥५॥ यतः- पभिन्यो राजहंसाश्च जीमूताः सुतपस्विनः। ये देशमनुगच्छन्ति स देशः श्रियमश्नुते ॥६॥ पुत्रं श्रीभरतेशस्य गणेशमृषभेशितुः। यान्तं सिद्धगिरि श्रीमत्पुण्डरीकं नमामि यत् ॥७॥ (प्रतीहारः सत्यसार:-) इत्थं सोमयशा राजा हृदा ध्यात्वा मुदा तदा । सत्यसारं प्रतिहारं प्रोचे पोत्सुकया गिरा॥81 (विजयसेनो मण्डलेशः, गुणारामः श्वा-) हंहो विजयसेनाख्यं मण्डलेशं ममाऽधुना । गुणारामाभिधश्चान-युक्तमाकारय द्रुतम् ॥९॥ तथाऽयं सत्यसारोऽपि नीत्वा देशं नृपस्य तम् । गत्वा विजयसेनाख्यं मण्डलेश्वरमाहत ॥१०॥ ततो विजयसेनोऽयं स्वेन श्वानेन संयुतः। समागत्य ननामाऽऽशु श्रीसोमयशसं नृपम् ॥११॥ नृपो विजयसेनं तं प्रोचे भोः! त्वरितं चल। यथा श्रीपुण्डरीकाग्रे स्वरूपं कथ्यते शुनः॥१२॥ अंहः पापम् । १ मेघाः । ३ गणधरम् । २०५॥ 000000000000000000000000000000000000000000000000000 १२ Jain Education pleational For Private & Personal Use Only Plinelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy