SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ॥ १९९॥ ४ १२ 000000000000000 इत्थं गदित्वा मृगवेष एष तं चन्द्रमाकारयितुं जगाम । साधर्मिकं धर्मरता महान्तः प्रवर्तयन्त्येव हि धर्ममार्गे ॥४९५ ॥ अथाऽनन्तरम् - ( लक्ष्मीधरप्रबोध: - ) मूर्छाप्रणाशात् सर्कलः स भूत्वा श्रीपुण्डरीकं यतिनं प्रणम्य । संसारवैराग्यतरङ्गितात्मा लक्ष्मीधरो भूमिपतिर्वभाषे ||४९६ ॥ sarsarक्यैर्हि विभो ! पवित्रैज्ञनोज्ज्वलैर्मेऽद्य तमो निरस्तम् । भवं ततोऽद्राक्षमहं च सम्यग् दृष्टित्वयुक्तो मुनिराज ! जातः ॥४९७॥ किं बहुना ! - श्रीजैन धर्मोचयशर्कराद्यं पीतं त्वदीयं वचनाऽमृतं यत् । उन्मत्तभावं परिहाय विश्वं पश्यामि विश्वं च यथास्थितं तत् ॥ ४९८ ॥ तवोपदेशामृत कुण्डमध्ये स्नात्वा मनो मे विमलं बभूव । भूयो रजःस्पर्शनिषेवणाय दीक्षाङ्गिकाङ्गीकरणात् प्रभो ! ते ॥ ४९९॥ एवं वचस्तस्य मुनिर्निशम्य ज्ञात्वाऽवबोधावरणस्य शान्तिम् । जगाद राजन् ! विनयस्थचित्तो दीक्षां नय त्वं विनय खपापम् ॥ ५०० ॥ शत्रुंजयं सिद्धगिरिं युगादि - देवस्य वाक्यादधुना व्रजाम | श्री केवलज्ञानमहोऽपि तत्र संभावनीयं शुभभावतस्ते ॥ ५०१ ॥ अनन्तसिद्धैः परिशुद्धमेनं गिरिं गिरा स्तोतुमलं न कोऽपि । तथापि सिद्धान्तवचोभिरेतत् - प्रभावमाकर्णय दत्तकर्णः ॥५०२ ॥ १. सचेतनः । २ दूरीकुरु । ३ अस्मत्पुरुष पञ्चमीबहुवचनम् । Jain Education International For Private & Personal Use Only चरित्रम्सर्गः - ५ ॥ १९९॥ www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy