________________
पुण्डरीक॥१९६॥
0000000000
S2OcOoOooooooooooOOOOOOOOOOOO
(आगतो लक्ष्मीधरप्रबोधाय पूर्वमित्ररूपो मुचकुन्दः-)अथाऽन्यदाऽसौ मुचकुन्देवो ज्ञानादवेत्य स्वभवं पुरात्यम्।
मित्रं निजं चामरशेखराख्यं बुबोध लक्ष्मीधरसंज्ञमेव ॥४७॥ स पूर्वमैत्रीवशतोऽतिमोहं बिभ्रंश्च लक्ष्मीधरभूमिनाथे ।
समेत्य चायं नृपवासमध्ये देवो निशान्ते प्रकटो बभूव ॥४७॥ जाते निशान्ते परमेष्ठिमन्त्रं स्मरन् जजागार नृपः स यावत् ।
तावत् पुरस्थं मुचकुन्ददेवं विलोक्य नत्वाऽऽह विकस्वरास्यः ॥४७॥ ( लक्ष्मीधर-मुचकुन्दयोर्वार्तालाप:-) स्वर्गात् कुतस्त्वं ननु कोऽसि देवः कस्मादकस्मात् प्रकटो बभूव ।
निगद्यतामद्य मयि प्रसद्य सद्यः प्रमोदाय समग्रमेतत् ॥४७६॥ देवः स ऊचेऽस्मि वसन्तसेनस्तवाऽभवं पूर्वभवे वयस्यः।
ततो ममत्वेन पुरातनेन सौधर्मकल्पाद जर्वेतः समेतः॥४७७॥ राजाऽवद् देव ! वसन्तसेन-नाम्नैव हर्षाकुलितोऽस्मि गाढम् ।
_ अहो ! अहं मोहसमूहमूढ ऊहे भवं न स्वमपीह पूर्वम् ॥४७८॥ तथाऽपि कृत्वाऽद्य मयि प्रसादं निवेद्यतां पूर्वभवप्रवृत्तम् ।
भवादृशां दर्शनमत्र लोके मोघं नहि स्यादमरोत्तमानाम् ॥४७९॥ अथो बभाषे मुचकुन्ददेवो राजन् ! यदा श्रीमुनिपुण्डरीकः ।
१ पुरातनम्-पुराभव वा । २ गृहे । ३ निशाया अन्ते-प्रभाते । ४ वेगतः । ५ विचारयामासे ।
000000000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.