________________
प्रहरीक-8 ( ज्योतिष्क-चन्द्र-लोकगतजिनबिम्बवन्दनम्-) ज्योतिष्कलोके निखिलेऽपि नित्य-मूनिमस्कार्य मुनीश्वरी तौ। चरित्रम्. ॥१९॥
ततो विमाने स तु शाश्वते स्वे प्रवेशयामास शशाङ्कदेवः ॥४५७॥ निजे विमानेऽथ जिनेन्द्रमूर्तीः संवन्दयामास सुरो मुनीशौ।
सर्गः-५ सिंहासने स्वे विनिविश्य चैतौ नत्वा पुरस्ताद् निषसाद हर्षात् ॥४५८॥ पुरो निविष्टेऽथ सुरोत्तमेऽस्मिन् वाचंयमेन्द्रोऽमरशेखरोऽयम् ।
ददी तदौचित्ययुतं नितान्तं धर्मोपदेशं शुभभाववृद्धथै ॥४५९॥ 8 तथाहि- (मुनिभ्यां मत आभारः सुरराजस्य -) साहाय्यतस्ते सुरराज ! जैन-तीर्थानि नित्यानि नमस्कृतानि।
ततोऽस्मदीये हृदये समाधिर्वभूव पुण्यकनिधिर्भवांश्च ॥४६०॥ यतः- सहाय्याद् यस्य सर्वो गुरुजनक-जनन्यादिवोऽतिपूज्यो।
नत्वा तीर्थानि हर्षांदुरुसुकृतसुधास्वादतृप्तान्तरात्मा। प्रक्षीणानन्तपापः सविधशिवसुखो जायते विष्टपेऽस्मिन् ।
धन्योऽसौ पुण्यभागं बहुमिह लभते सर्वसंघस्य तस्य ॥४६१॥ तथाच- अनया यात्रया जातः-संन्यासो निर्मलो मम।
देहकष्टं यतः शुद्ध-भावतः स्यात् फलेग्रहि ॥४६२॥ अन्यच- (श्रमणयोश्चन्द्रेण सह सलाप:-) तथा कथय भो! देव! विमानं ते महाप्रभम् ।
उदिते च दिनाधीशे दृश्यते निष्प्रभ कथम् ? ॥४६३॥ जगाद देवो मुनिचक्रवर्तिन् ! स्यान्निष्प्रभ मे न विमानमेतत् ।
18 ॥१९॥ Jain Education 18ational For Private & Personal Use Only
ww8lelibrary.org
OOOOOOOOOOOO
D.000000000000000000000000000000000000000000000000