________________
दरीक
१९१॥
४
१२
उद्यापनं यद् रुचिरं प्रपूर्ण फलं तपः कल्पतरोस्तदेतत् ॥४३४॥ ( चन्द्रलेखा केवलज्ञानं प्राप - ) इत्यद्भुतं निर्मलधर्मभावाद् महासती त्रस्तसमस्तपापा । आलोकलोकप्रविलोकदीम - दीपप्रभं प्राप महो महोच्चम् ॥ ४३५॥
ततो गतां केवलिसदोऽन्तविलोक्य राजा जननीं स्वकीयाम् । तीर्थंकरं श्रीअभिनन्दनाख्यं पप्रच्छ माता किमिह स्थितेति ? ॥४३६ ॥ ततञ्च-- ( अमरशेखरो विस्त:-) जिनस्य वाक्यादभिनन्दनस्य तां केवलज्ञानयुतामवेत्य । स राजराजोऽमरशेखरोऽथ भवे विरक्तः सचिवानुवाच ॥४३७॥ हंहो ! अमास्या! मन राज्यमेतत् सोमस्य पुत्रस्य समर्पणीयम् । अन्यस्य वा व्यायतोऽपि कस्य, नेष्यामि यस्मादथ जैन दीक्षाम् ॥४३८|| (कीर्तिचन्द्रेण प्रेक्षितः) आदेशतः श्रीअभिनन्दनस्य श्रीकीर्तिचन्द्रोऽथ गणाधिनाथः । वसन्तसेनेन युतं तदैव तं दीक्षयामास नराधिराजम् ॥ ४३९ ॥
राजोऽधर्मतच विगाल सिद्धान्त पयोधिमध्यम् ।
आचाम्लचन्द्रं व्रतरत्नमुच्चैश्वकार मोक्षश्रियिं संगमेच्छुः ॥४४० (नोऽपि श्रम) आचाम्लचन्द्रं चरतस्ततोऽस्य वसन्तसेनो विदधेऽथ सेवाम् । यतोऽन्तरङ्गं चिनयाख्यमेव व्रतं हि सिद्धान्तविदो वदन्ति ॥ ४४१ ॥ ( अमरशेखरभ्यानम्— ) साधुस्ततोऽसौ निशि पूर्णिमायाम् ध्यायन् शशाङ्के जिन मूर्ध्वनेत्रः ।
१ केवलज्ञानम् । २ सप्तम्यन्तमेतत् ।
Jain Education International
For Private & Personal Use Only
चरित्रम्सर्ग: ५
।। १९१
www.jainelibrary.org