SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ĐOOôóOooooooooooooooOOOOOOOOOOOOOO द्वादशस्वपि पक्षेषु शुक्लेष्वेवं तपश्चरेत् । प्रतिपत्सु तु कृष्णासु विधिवत् पारणानि च ॥४१४॥ चरित्रम्. विधिश्वायम्- पारणे मुनये शुद्धमन्नं पात्रं विशुद्धिमत् । दत्त्वैकैकः यथाशक्त्या ततो भुञ्जीत भावनात् ॥४ आवश्यकं च पूजां च कृष्णपक्षेषु नित्यशः । कुर्वन् सरसमश्नीयात् यथेष्टं दुष्टतोज्झितः ॥४१६॥ अथाऽस्योद्यापनविधिः-श्रीवीतरागमूर्तीनां शतं सततिसंयुतम् । विधाय विधिना रम्यं प्रतिष्ठाप्यं शुभे दिने पुरस्तासां तु मूर्तीनां तत्संख्यैर्मोदकैर्भूतम् । स्थालं संदौकयेदेतत्संख्यानि तिलकानि च ॥४१८॥ उद्यापन विधिरेवमश्विनीपूर्णिमादिने । प्रतिपत्तिथौ च कृष्णे पारणं विधिना चरेत् ॥४१९॥ विधिश्वाथ- श्रावका: श्राविकाश्चैव जिनधर्मपरायणाः। भोजनीया महाभक्त्या सप्तविंशतिसंमिताः ॥ सप्ततिशतसंख्याश्च जैनसिद्धान्तपुस्तिकाः । गुरुभ्यो हि प्रदातव्या ज्ञानस्याऽवासिहेतवे ॥४२१॥ इदमाचाम्लचन्द्राख्यमित्युद्यापनभूषितम् । यः कुर्यात् स भवेद् मुक्तस्तृतीयेऽत्र भवेऽथवा ॥४२२॥ एवमाचाम्लचन्द्रस्य विधिस्तीर्थकरोदितः । उधृतः कीर्तिचन्द्रेण धर्मिणामुपकारकः" ॥४२३॥ ।इत्याचाम्लचन्द्रतपोविधि संपूर्णः । ते वाचयित्वेति सुपुस्तिका तां संमीलयामासुरथाऽऽशुराज्ञी। प्रोचे प्रभो! मेऽद्य कुरु प्रसादमाचाम्लचन्द्रस्य समर्पणेन ॥४२४॥ ( चन्द्रलेखया आरब्धं तत् तपः-) विज्ञाय हर्ष त्रिद(दि)शप्रभाख्यैः सूरीश्वरैदिव्यसुगन्धचूर्णः। निचिक्षिपेऽस्याः शिरसि प्रहृष्टैराचाम्लचन्द्रस्य विधानहेतोः ॥४२५॥ सा चन्द्रलेखा स्वगुरून् प्रणम्य गत्वा निजं राजगृहं प्रमोदात् । 8 ॥१८९॥ 000000000000000000000000000000300 SOO000000000000ळ Jain Education For Private & Personal Use Only wrolainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy