SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ।। १८८ ।। ४ १२ लीलावती सा सुर्विधूत-मदा मुदा तत्र तदा ननाम ॥ ४०४॥ पुत्रस्य नम्रस्य वधूयुतस्य तुष्टान्तर ऽऽशीर्वचनं प्रदाय । सा चन्द्रलेखा, गुरु राजगेहं ददौ तदौन्नत्यकृते स्नुषायै ॥४०५॥ सखेचरैः भूमिचरैः समग्रैर्नतांहिपद्मः सुकृतैकसद्म । Jain Education International चकार राज्यं सुचिरं सुनीतिप्राज्यं नरेन्द्रोऽमरशेखरोऽथ ॥ ४०६ ॥ अथान्यदा पुत्रमुखेन पत्युश्चरित्रमाकर्ण्य तपः पवित्रम् । er चन्द्रलेखा वरपुस्तिकां तां संपूजयामास सुगन्धपुष्पैः ॥ ४०७ः ( त्रिदशप्रभा गुरव:-) राज्ञी ततः श्री त्रिदशप्रभाख्यान् गुरून् प्रणन्तुं सहिता सखीभिः । तां पुस्तिकामात्मकरे गृहीत्वा तपोविधिं ज्ञातुमना जगाम ॥ ४०८ ॥ ( गुरुनिरमरशेखरजनन्यै चन्द्रख ये आचाम्लचन्द्रस्य विधिर्दर्शितः). प्रणम्य तस्यां पुरतः स्थितायत पुस्तिकां ते गुरवो गृहीत्वा । आचाम्लचन्द्रस्य विधिं समग्रां प्रवाचयांचकुरवक्रचित्ताः ॥ ४०९ ॥ तथाहि" प्रकामं कार्तिके मासि शुक्लायां प्रतिपतिथौ । आचामाम्लं तपः कुर्यात् स्मरस्मैरविवर्जितः ॥ ४१० ॥ एवं चतुर्दशीं यावदाचामाम्लानि नित्यशः । उपवासं पूर्णिमास्यां कुर्यात् पूजां त्रिधा सदा ॥ ४११॥ दिनेष्वेवं तपः कुर्यात् कायोत्सर्ग तु रात्रिषु । चन्द्रोदयास्तमानं हि चन्द्रसन्मुखलोचनः ||४१२॥ कायोत्सर्गे प्रतिनिशं वर्धमाने घटद्वये । स्मरन् पञ्चनमस्कारं जिनं चन्द्रे निवेशयेत् ॥ ४१३॥ १ स्नुषा-पुत्रवधूः । २ स्मरस्य स्मरणं स्मरस्मरः । For Private & Personal Use Only चरित्रम्सर्गः -५ ॥१८८॥ www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy