SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ॥१८५॥ 000000000000000000000000000000000000000000000 विद्याधरेन्द्रास्तु मिथः स्ववैरं विमुच्य जग्मुर्नगरी जयन्तीम् ॥३८२। चरित्रम्. विद्याधराणां समरोहतानां स्यात प्राणविश्राण नतोऽधिपोऽयम् । सर्गः-५ इत्थं मिथः प्रोच्य नृपाः समग्र-विद्याधरेशं विदधुः कुमारम् ॥३८३॥ ( विद्याधरपतित्वेऽभिषिक्त:-अमरशेखरो लक्ष्मीपुर प्रयाति-) विद्याधरेन्द्रा रिपुमल्लमुख्या रत्नध्वजाद्यास्तु सुभक्तचित्ताः। चक्रुर्नमोऽस्मै हि परोपकारः समृद्धिदश्चात्र परत्र लोके ॥३८४॥ वैतात्यशैले सकले तदैव श्रेणिद्वयस्याऽपि पुरेषु वेगात् । आज्ञाऽथ राज्ञोऽमरशेखरस्य प्रघोषयामासुरिति क्षितीशाः ॥३८५॥ स राजराजोऽमरशेखरोऽथ दिदेश तान् श्रीरिपुमल्लमुख्यान् । रत्नध्वजं श्रीनृपधूमकेतोः पट्टेऽभिषिञ्चन्तु नरेश्वरा भोः! ॥३८६॥ प्रमाणमादेश इतीरयित्वा रत्नध्वजस्याऽथ महोत्सवान्ते । राज्याभिषेकं विदधुहि सन्तः कुर्वन्ति शत्रौ विजेते हितानि ॥३८७॥ स्मितोज्ज्वलां सोऽमरशेखरोऽथ स्नेहप्लुतां वाचमुवाच वाग्मी। लक्ष्मीपुरं प्रत्यधुना प्रयाणं ममानुमन्यध्वमतो नरेन्द्राः! ॥३८८॥ ततश्च-प्रयाणढकास्वथ वादितासु माङ्गल्यतौर्येषु घनं नदत्सु । विमानरूढेषु च खेचरेषु गायत्सु तारं वरकिन्नरेषु ॥३८॥ १ समरे-युद्धे-आहतानाम् । २ विश्राणनं-दानम् । ३ अमरशेखरः। ४ नने । ५ वक्ता । 18॥१८५॥ &0000000CONORMOMO000000000000000 000000000 Jain Education 1921 national For Private & Personal use only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy