________________
॥१८॥
00000000000000000000000000000000000
धर्मेऽप्रकम्पोऽङ्गिषु मानुकम्पो यः स्यात् स धन्यो हि नरो धरायाम् ॥३४॥ (धूमध्वज-पद्मयोः उत्तरकृत्यम्--) एवं गदित्वा धरणेन्द्रदेवे स्वस्थानयातेऽमरशेखरोऽयम् ।
सर्गः-५ ततस्तयोरुत्तरकृत्यकृत्यं प्रकारयामास विधेनिवासः ॥३४६॥ (सुरेन्द्रदत्तस्य स्वपुत्रेण समागमः-) स्फुरत्मभावं सविवेकभावं निशम्य धूमध्वजशत्रमेनम् ।
आश्चर्यतोऽभ्येत्य सुरेन्द्रदत्तो यावच्च तावत् स्वसुतं ददर्श ३४७॥ सुरेन्द्रदत्तोऽपि सुतं समीक्ष्य विषादतः साश्रु जगाद पाणिम् ।
पूर्व त्वया यः परिलालितोऽसौ सुतो हतो हन्त हताश! हस्त! ॥३४८॥ (सुरेन्द्रदत्तस्य मूर्छा-) यावत् कुमारो जनकं निरीक्ष्य सोत्कण्ठमुत्तिष्ठति तत्पणत्यै ।
सुरेन्द्रदत्तो नृपतिः स तावत् लुलोठ भूपीठमकुण्ठमूर्छः ॥३४९॥ कथं कथं मूर्छति मे पिताऽयमित्युचवाचं नृपजं निरीक्ष्य ।
हृष्टः सुरेन्द्र रिपुमल्लभूपोऽप्यचीकरत् सज्जमथोपचारैः ॥३५०॥ शीतोपचारात् सुतदेहसंगानिजापराधस्मरणात् सुरेन्द्रम् । .
यथाक्रमं स्वल्पगतोग्रमूर्च दृष्ट्वा जनोऽस्थात् सकला सदुःखः ॥३५१॥ मोहमरोहः कथमस्य राज्ञो निवार्यतां चेति (चैत ? ) मथो निगद्य ।
चिन्ताञ्चिताश्चेतसि यावदस्थुस्तावन्नृपाः खे ददृशुर्मुनीन्द्रम् ॥३५२॥ १ विधिनिवासः-विधिवद् अनुष्ठाता । २ अमरशेखरम् । ३ हस्तम् ।
18 ॥१०॥
1000000000000000000000000000000000000000000000
Jain Education International
For Private & Personal use only
www.jainelibrary.org.