________________
चरित्रम्.
॥१७॥
0909999999999999999999c999999999999999
वसन्तसेनोऽथ जगाद देव! वाक्यैः सशोकैर्जनमानसानि।
भिनत्सि, किंचित् तव काऽपि शक्तिः समस्ति तज्जीवय सर्वमेतत् ॥३३८॥ 8 सहर साक्षेपमुक्त्वाऽन्यतुरंगमं स्वं पीतेन बाणेन घनं जघान।।
नीत्वा निषङ्गं सह पीतबाणं सजीवमेतं नृपसू रुरोह ॥३३९॥ (धूमनज-पद्मवर्ज सर्वेऽपि मृता जीविता:-) सुवर्णवर्णैरमृताठ्यबाणैः प्रविध्य हस्त्य-श्व-पदातिसैन्यम् ।
तज्जीवयामास दयाचित्तः क्षेत्रेऽत्र धृमध्वज-पद्मवर्जम् ॥३४०॥ धमध्वजासितबाणविड़े न पीतवाणा विदधुः प्रवेशम् ।
स पद्मदेहस्य तु भस्मपुञ्जः कणं कणेनैव गतोऽग्रतोऽपि ॥३४१॥ ( शेषमृतजीविताय धरणेन्द्राराधना कृता अमरशेखरेण-) आश्चर्ययुक्ते स्तुवति प्रकामं नरेन्द्रवर्गेऽमरशेखरोऽथ ।
आराधयामास धरे(रणे)न्द्रदेवं कृत्वोपवासत्रयमेकचित्तः ॥३४२॥ (भागतो धरणेन्द्रः-) अथाऽम्बरे तं धरणेन्द्रदेवं विलोक्य भूमीशसुतो बभाषे।
कृत्वा प्रसादं सुरराज ! धूमध्वजं तथोज्जीवय पद्मभूपम् ॥३४३॥ जगाद देवो ननु विस्मृतं किं मया तदाऽवादि तवाऽग्रतोऽपि ।
___ यद् भस्मरूपं मम बाणविद्धं विमुच्य जीविष्यति सर्व एव ॥३४४॥ तवोपवासादिकसत्त्वतोऽहं तथाऽपि हृष्टोऽस्मि कृमार! गाढम् । १ जीवा गुण:-दोरी-भाषायाम । २ नृपपुत्रः ।
18| ॥१७॥
LAOOOOooooooooooooooo
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.