SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ चरित्रम् ॥१६९॥ सर्गः-५ 900.000 Occong-sooooooooooooooooooooooooộc यावत् प्रणेमुविनयात् ततोऽमुं तावत् तिरोऽभूदुरगाधिराजः ॥ २६४ ॥ (एको नरः-) एको नरोऽथो मणिचूलवीरसैन्यात् समभ्येत्य तदैव तत्र । कृत्वा प्रणामं नृपपादमूले कृताञ्जलिःप्राञ्जलिवागुवाच ॥२६॥ धमध्वजोऽसौ शिवमन्दिरेशः संमील्य भूपान् भविताऽस्त्यऽमित्रः। एतत्स्वरूपं कथितं प्रवीर ! प्रस्थापितैयूँढनरैर्नरेन्द्रैः ॥२६६॥ (युद्धाय त्वरा-) तस्येति वाक्यात् स्मृतिमान् नृपेशः कोटीरयन् स भृकुटी ललाटे। हृत्क्रोधधूमध्वजधूमवल्ली इवोर्वरीन्द्रो द्रुतवाचमूचे ॥२६७॥ पर्याण्यन्तां महाश्वा निजजवभरतः क्रान्तविश्वा क्षणेन सज्यन्तां सद्गजेन्द्रा मिलदलिपटलैर्दानतः सेव्यमानाः। योधाः! संनद्यतां भो! रणसलिलनिधेर्मन्थने मन्थशैलाः भूपाः ! संभूयतां च प्रबलरिपुकुलप्रत्यनीकैरनीकैः ॥२६८॥ उदित्वैवं राजा स तु निजसमाजाच तरसा रयादुत्थायाऽथ द्विरदर्नवरं लक्षणधरम् । प्रसह्य प्रारुह्य प्रतिनृपंगणासह्यमहिमा-हिमांशुः पूर्वस्या नगमिव पुरा प्रोद्गत इतः ॥२६९॥ (अमरशेखरकुमारोऽपि समित्रो युद्धे चचाल-) ततः कुमारोऽमरशेखरोऽपि मित्रेण चापेन च चारुमतिः॥ चन्द्रावतंसः स्वसहोदराणां शतत्रयेणाऽनुगतोऽभ्युपेतः ॥२७॥ ( अक्षौहिणीनवकम्-) एवं तदा तस्थुषि तत्र राज्ञि भूपाः समीपं समुपेयुरन्ये । १ कोटीरं कुर्वन् । २ भृकुटीविशेषणम्। ३ मदभरतः। ४ प्रवरं हस्तिनम् । ५ प्रतिनृपः-शत्रुः । For Private & Personal Use Only 30000000000000000000000000000000000000000000000 8॥१९॥ Jain Education International www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy