SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-2 उलूलुकल्लोलकलेषु तत्र चतुर्षु जातेषु च मङ्गलेषु । चरिणम्. १६६॥ प्रयाच्य किश्चित् मम पुत्रिकायाः करं विमुश्चेति नृपस्तमूचे ॥२४२॥ सर्गः-५ (धनुस्तूणस्य याचनम्- ) ऊचे विहस्याऽमरशेखरोऽपि धनुःसमं दिव्यशरमपूर्णम् । तूणं प्रतूर्ण वसुधाधिनाथ ! यच्छ प्रयच्छ त्वमतो मतं मे ॥२४३॥ राजाऽवद् देव ! गुणस्त्वदीयैस्तनूभुवं स्वाङ्गसुवं ददामि। पुत्र्यास्तु भाग्येन धनुर्मयाऽऽप्तं तूणं त्वसाध्यं कथमर्पयामि? ॥२४४॥ (चिन्तामणि:-) तस्मादिहाऽऽस्माककुलेऽस्ति पूज्यश्चिन्तामणिश्चिन्तितवस्तुदाता। एनं गृहाणेति निशम्य हर्षान्नीत्वा मुमोचाऽथ कर प्रियायाः ॥२४॥ (प्रतिज्ञा-) इत्थं विवाहस्य महोत्सवेषु कृतेषु राजाऽथ कुमारराजः। संस्थाप्य चापं कनकासनेऽसौ संपूज्य संयोज्य करौ जगाद ॥२४६॥ त्वां चाप ! यद्यामहं सुभाग्यान्न तत् कथं त्वत्सदृशं निषङ्गम्। पूर्णा यदेषोऽत्र मनोरथः स्याद् यास्यामि भोक्ष्यामि तदाऽन्यथा न ॥२४७॥ (नमस्कारो मन्त्रः-) इति प्रतिज्ञाय गिरं स्थिरं तं वीक्ष्य स्थितं भूपसुतं वसन्तः । अरं स्मरन् पञ्चनमस्कृतिं सोऽप्यस्थाद् महास्थामनिकामधाम ॥२४८॥ इत्थं स्थितौ तौ नृपतिश्च मत्वा परिच्छदेनाऽल्पतरेण गत्वा । प्रमोदतो विस्मयतोऽप्युपासामास त्रिरात्रं स विवेकपात्रम् ॥२४९॥ १ स्त्रीजनकृतो विवाहगीतध्वनिः । २ प्रापम् । 8/॥१६॥ sooooOOOOOOOOOOOOooooooooooooo0ooooooo0 0000000000000000000000000000000000000000000 Jain Education Inte For Private & Personal Use Only Www.jainelibrary.org.
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy