SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ॥ १५८॥ ४ १२ (स्वयंवरातनृपाणां सरकार:-) ततोऽपचार्य स्वभाजनेभ्यो वसन्तसेनस्य सभाजनाय । स प्रेरयद् भ्रभ्रमसंभ्रमेण महीमहेन्द्रो मणिचूलवीरम् ॥ १८० ॥ नरेशनिर्देशमथो विचिन्त्य तदा मुदा पाणितले विलम्ब्य । वसन्तसेनं मणिचूलवीरो गृहेऽर्घ्यदानाय निनाय शीघ्रम् ॥ १८९ ॥ ( वसन्तसेनमित्रप्राप्तिः— ) ततः कुमारोऽमरशेख (प) रोऽपि प्राणप्रियं लोचनगोचरस्थम् । हसन्तमालोक्य वसन्तसेनं मुदोत्थितोऽयं सहसाऽऽलिलिङ्ग ॥ १८२॥ [ तदा चकुमारचित्तेन वसन्तचित्ते वसन्तचित्तेन कुमारचिते । स्वयं त्वमुक्तं चिरचितं स्राक् संदौकितं शैत्यमपूर्व भोज्यम् ॥ १८३॥ ( मित्रयोः संभाषणम् — ) मित्रेण पृष्टोऽथ वसन्तसेनो वृत्तं निजं ह्याविरहात् समग्रम् । मन्त्रासि - राजाङ्गजजीवदानप्रभृत्यवादीत् प्रमदप्रदायि ॥ १८४ ॥ ततो वसन्तेन युतं कुमारमसिस्नपेद् मङ्गल-गानपूर्वम् । Jain Education International कोटीर-हारा - ऽङ्गद-हीरमुद्रादिभिः स वीरस्तमलंचकार ॥ १८५ ॥ ( प्रतीहारो नृसिंहः - ) ततः प्रतीहारवरो नृसिंहः पट्टाश्वमानीय जगाद वीरम् । विधाय माङ्गल्यविधीन् समग्रानारोप्यतामत्र कुमारराजः ॥ १८६॥ ( विस्मितं चेत:- ) वसन्तसेनादिभिरन्वितोऽयं तुरंगमारुह्य तदा चचाल । क्वाऽहं क्व वैताढ्यनगः क्व चेदं विचिन्तयन् विस्मितचेतसैवम् ॥ १८७॥ [ इतश्च १ सभाजनं पूजनम् । २ रूपयामास ३ भूषयामास । For Private & Personal Use Only ∞∞∞∞∞∞∞∞∞∞0 चरित्र सर्ग: ५ ॥१५८॥ www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy