________________
॥१५४॥
४
१२
( चापधरो मरो घृतः ) स्नायं चितन्वन् धनुषो गुणोत्थं टङ्कारमाकर्ण्य जवाकुलोऽसौ । तत्रागतश्चापधरं नरं तं विलोक्य धृत्वा स्वपुरी निनाय ॥ १४८ ॥
तं राजपुत्रं स्वगृहे विमुच्य चापं गृहीत्वा मणिचूलवीरः ।
गत्वा सभायां रिपुमल्लवीरं नत्वा सहर्षः समुपाविवेश ॥ १४९ ॥ (राज्ञाश्चिन्ता, तन्निरासश्च—) राजा धनुः प्रौढधनुःप्रभाढ्यं वीक्ष्याऽवदत् कोऽपि बली न तादृक् ॥ कोट समारोप्य गुणं हि योऽस्य करोति मे कोटिगुणं प्रमोदम् ॥ १५०॥ उक्त्वेति मौनस्थममुं सचिन्तं दृष्ट्वा बभाषे मणिचूलवीरः । भूत्वोपकर्ण नृपतिस्तदैव हृष्टो नेरन्द्रान् सहसाऽऽजुहावे ॥ १५१ ॥
( विवाहयोग्या सामग्री — ) उपस्करं तत्र विवाहयोग्यं भूभीपतौ कारयति प्रकामम् । रात्रौ स्वसौधाग्रगचन्द्रशालां संश्रित्य चन्द्रेऽभ्युदितेऽस्मि सुतः ॥ १५२ ॥ ( राजपुत्रहरणम् - ) केनाऽपि विद्याधरपशनेन विहायसैव व्रजताऽस्मि दृष्टः । हृत्वाऽग्रवैरादिह शैलशृङ्गे संकीलितो विस्मृतसर्वविद्यः ॥१५३॥
ततोऽतिपीडाभरतो न वैरी सम्यग् मयाऽलक्ष्यत यद्यपीह । संजीवितोऽहं त्वयका तथाऽपि ज्ञात्वा करिष्यामि रिपुं प्रशान्तम् ॥१५४॥ स्पृहाविहीनस्य च जीवदातुस्तवोपकारादन्नृणो न हि स्याम् ।
कृत्वा कृपां धन्य ! तथाऽपि किञ्चित् याचस्व मां पुण्यनिधिं कुरुष्व ॥ १५५ ॥ [ यतः
Jain Education International
१ धनुषः अप्रभागे । २ आकारयामास । ३ पांशनो नीचः ।
For Private & Personal Use Only
चरित्रेम् सर्ग: ५
।। १५४ ॥
www.jainelibrary.org