SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ 9 ॥१४८॥ सगे:-५ 000000000000000000000000000000000000000- ( वसन्तसेनो मित्रम्-) इत्थं शिशुत्वे सकलाः कलास्ता अधीयुषो भूमिभुजः सुतस्य । श्रीकान्तमन्त्रिप्रवराङ्गाजेन वसन्तसेनेन बभूव सख्यम् ॥१०५॥ ( योवनम्-) तथाऽस्य देहे प्रससार सार-शास्त्राम्बुयुग यौवनसिन्धुिरुच्चैः। मौख्य-यथा तत् तृणवद् जगाम बाल्यं ममजाऽमलवालुकेव ॥ १०६ ॥ ( वसन्तक्रीडा-) वसन्तसेनेन युतोऽथः सख्या सख्याद् वसन्ते स वनाऽवनीयु । पुष्पोचयं भूपसुतश्चिकीर्षुर्जगाम कामाधिकधार्मधामी॥ १०७॥ ( वृक्षाः सशोभाः- ) ततोऽवनीजानिसुतो नीजानितो विलोक्येति समृद्धशोभान् । आस्यं वयस्यस्य स जातहास्यं सलीलमूचे सहसोनमय्य ॥१०८॥ त्वं नेत्रमित्रीकुरु मित्र! चित्र-प्रदान् विशेषान् मधुनाऽधुनाऽत्र। तरून गुरून पल्लवपुष्पलक्षम्या मनो जनानां हरतो रयेण ॥१०९॥ तथा चैतत् प्रतिपन्नम् । नाऽम्भोभोज्यभरंददाति दमयेद्-अश्यानशत्रु दवं नो तिष्ठेद् मितकालतोऽथ दिवसं पार्श्व वसन्तः कदा। हर्षे हेतुमकुर्वति दुमततिश्चास्मिन् समेते सदासोल्लासा किल सा तत्र जयति प्रीतिनिराशाश्रया ।।११०॥ छायाद्यायासशान्त्यै कुसुमपरिमल: कायसौरभ्यकर्ता [अन्यच्चनिष्णातान्येव तृष्णा-क्षुदुपशमविधावस्य नानाफलानि । धन्यो वन्योऽपि भूमीरुहनिवह इहाऽनेकलोकोपकारी । १ यत्र सिन्धुः प्रसरति तत्र तृणानि, वालुकाश्च न स्थातुं शक्नुवन्ति-अत्राऽपि यौवनसिन्धी प्रसरति तृणरूपं मौय॑म् , वालुकारूपं च बाल्यं दूरापगतमेव । २ कामाधिकतेजोयुतः। ३ वनीजान-वन्यां जातान्-वृक्षान् । ४ पश्य । ५ वसन्तेन । ६ न श्यानो घनः । ७ तृषा । For Private & Personal Use Only 5000000000000000000000000000000000 ॥१४८.॥ Jain Education International www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy