________________
पुण्डरीक
॥१३६॥४॥
SSOORD0000000000000000000000000000000KOOOOOOOOOON
(सुरेन्द्रदत्तार्थ वरयाचा-)
सुरेन्द्रदत्तस्य ततो नृपस्य मदीयमित्रस्य सुतं प्रयच्छ ॥२७॥ चक्रेश्वरी साऽऽह सुरी नरेशं राजन् ! हरिद्वर्णतुरंगिकायाः।
सोऽयं किसोरो भविता तवाऽद्य तमर्पयेस्त्वं नु निजस्य सख्युः ॥२८॥ ( देवीदर्शितः पुत्रोपाय:-) सुरेन्द्रदत्तस्य हयं तमेवाऽऽरूढस्य भावी तनयाऽभ्युपायः ।
धन्यः पुनस्त्वं तु नृप! स्वमित्रे प्रीतिं सदा स्फीतमतिं बिभर्षि ॥२९॥ ( आशीर्वचनमुक्त्वा देवी तिरोबभूव-) यन्मित्रदुःखेन तु दु:खितोऽसि ददासि तत् ते वरमद्य तुष्टा।
वैताट्यशैलेऽत्र तयोत्तरस्यां विद्याधरेशत्वमखण्डमस्तु ॥३०॥ देवीत्युदित्वाऽथ तिरोबभूव भूवल्लभोऽप्याप फलं वरस्य ।
सायं दिने तत्र हयं तु जातं वर्षत्रयं पालितवान्नरैः स्वैः ॥३१॥ ( पवनंजयो हयः-) तेन त्वयि प्रीतिभृता नृपेण विमानमारोप्य हयः स एव ।
प्रस्थापितोऽयं पवनंजयाख्यो विद्याभृतां पञ्चशतैर्मया च ॥३२॥ अतो बहुभ्यो नृप ! वासरेभ्यो ममाऽऽगमोऽभूदिति सर्वमुक्त्वा ।
जगाद पद्मः करमुन्नमय्य भो ! भोः ! कुरुध्वं तुरगं नृपाने ॥३३॥ विद्याधरास्तेऽथ विधाय ननं विमानमेकं पवनंजयाख्यम् ।
उत्तारयामासुरमुं तुरंग सुरेन्द्रदत्तस्य नृपस्य दृष्टी सुरेन्द्रदत्तः सहितः प्रधानैः स्फुरत्मभं प्रेक्ष्य पुरस्तुरंगम् । १ हरिद्वर्णा नीला । २ अश्वपोतः ।
000000000000000000000000000000000000000000
Jain Education
national
For Private & Personal Use Only
Salww.jainelibrary.org