________________
पुण्डरीक-8 पूज्यादिदेवकुलपल्वलपुण्डरीके ! श्रीपुण्डरीकगणनाथ ! बहुक्षुधार्ताम् ।
चरित्रम्॥१३०॥ त्यक्तान्यकवचनधान्यरसां रसज्ञों खां भोजये ननु तव स्तवनामृतान्नैः ॥८२॥
सर्गः-४ स्वामिन् ! भवोदधिममुं जिनधर्मयानप्राप्तेस्तरन्तमपि तत्र स कामचौरः ।
नारीविलोचनतरीयुगलाधिनाथस्तीक्ष्णैः कटाक्षविशिखैर्निरपातयद् माम् ॥८३॥ यद् राग-रोषरजसा कलुषं किलाऽऽसीत् ज्ञानोदकं मम तवोदयतस्तदैव ।
पीतागमामृतसमुद्र! मुनीन्द्र ! पूतं भूतं विवेककमलालयहंसशोभि ॥ ८४ ॥ पूर्वानुभूतमखिलं नरकस्य दुःखं मंमन्यते मम मनोऽतिमनोहरं तत् ।
स्यां तद् विनाऽतिविमलः किमहं ततः स्यात् किं दर्शनं तव शिवद्रुमशुद्धबीजम् ॥ ८५ ॥ त्वं विश्ववन्द्य ! यदि सर्वसमोऽस्ति तत् किमहांसि हंसि मम मोदयसे मनः किम् ।
मोक्षं समीपयसि दूरयसीह जातिं तुभ्यं नमोऽनवगताय ततो यतीश ! ॥ ८६ ॥ ध्यानाद् मनो नयनयुग्ममिदं विलोकात् कणौं वचःश्रवणतश्च शिरः प्रणामात् ।
स्वामिन् ! कृतार्थमधुनाऽजनि सर्वमेतत् जन्माऽस्ति मेऽद्य सफलं तव सेवया तु ॥ ८७ ॥ (रत्नचूडकृतो राज्यत्यागः-) यतिस्तुतिमिति प्रोच्य ययौ पोतनपत्तने । राज्यं निजं ददौ राजा राजहंसाय सूनवे ॥४
(श्रीपुण्डरीकगुरुसमीपे रत्नचूडो गतः सपरिवार:-) ततश्च-स्नातदेहस्तुटन्मोहस्त्यक्तगेहावरागिभिः। गजारूढः वयाप्रौढेः प्रबुद्धेहबुद्धिभिः ॥८९॥ श्वेतवस्त्रैर्धतच्छत्रैः संगीताकष्टदृष्टिभिः । मण्डलेशसहस्रस्तु पञ्चभिः सहितस्तदा ॥ ९० ॥ १ कमलरूप ।। २ रसज्ञा जिह्वा । ३ मन्यतर्यडन्तं रूपम् । ४ अंहांसि पापानि ।
॥१३०॥
0000000000000000000000000000000000000000000000000
500000000000000000000000000000000000000000000000
Jain Education
national
For Private & Personal use only
w.jainelibrary.org