________________
पुण्डरीक॥१२६॥
0000000
Sr.c00000000000000000000
कमलासनमासीनः सोऽस्ति काश्चनपर्वते । प्रयान्तः सन्ति देवेन्द्राः सुते! तस्य महेऽद्भुते ॥ ३४ ॥ यद्यस्ति परलोकेच्छा मुक्तच्छायाः सुतेऽय ते । गेहान्निसर तत् पाप-पयोधि प्रतर त्वर ॥ ३२ ॥ :
( तत्र गता त्रैलोक सुन्दरी-) इत्युक्त्वा च ततो नीत्वा देवीं त्रैलोक्यसुन्दरीम् । ययौ काश्चनशैले.ऽथ तया सह ननाम तम् ॥३६॥
(वैरसिंहकेवलि-देशना-) निविष्टेषु सुरेष्वग्रे वैरसिंहो महामुनिः । सदुःखां स्वस्नुषां वीक्ष्य सवैराग्यं वचोऽब्रवीत् ॥३७ ॥४
( त्रैलोक्यसुन्दर्या वतयाचना-तस्या दीक्षा च-) निशम्य शमसंपूर्ण शमिनोऽस्य मुनेवचः । चतुर्गतिभवोच्छित्त्यै ययाचे चतुरा व्रतम् ॥ ३८ ॥ मा कार्षीभवनिबन्धसेवमुक्त्वा मुनीश्वरः । दीक्षां ददौ स दक्षायाः समक्ष सर्वसंसदः ॥ ३९ ॥ प्रवज्यां प्राप्य संतुष्टा मनःसंवेगवेगतः । सा समादाय संन्यासं वारिताऽपि सुपर्वभिः ॥ ४० ॥
(प्रियां बिना दुःखितो मेघनादः -) राजा श्रीमेघनादोऽथ प्रियामेप्रक्ष्य दुःखितः । केनाऽप्यऽपहृतामिति राज्यदेवीमतोऽस्मरत् ॥ ४१ ॥
(गज्यदेवीसांनिध्यम्--) उपवासत्रयप्रान्ते साऽऽविर्भूताऽवदद् वचः । निस्नेहवचसा ते सा साते सानुशयाऽभवत् ॥ ४२ ॥ ततः स्मृतेन देवेन नीता सदगुरुसंनिधौ । दीक्षां नीत्वाऽद्य संन्यासं सा जग्राह महाग्रहा ॥ ४३ ॥
( मेघनादो यया के अनपर्वते-) निशम्येति नृपो राज्ये निवेश्य निजगोत्रिणम् । सह राज्यसुरी नीत्वा ययौ काश्चनपर्वते ॥४४॥ १ महः-उत्सवः । २ मुक्ता इच्छा यया-तस्याः। ३ त्वरां कुरु । ४ देवैः। ५ सा ते तब, साते सुखे सानुशया सपश्चात्तापा।
॥१२॥
SaroCooooooo00000
Jain Education International
For Private & Personal use only
www.jainelibrary.org