SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ चरित्रम् । ॥११७॥ OoOOOOOOOOOOOOOOOOOOOOOO सोचे भवा नवैः स्वर्णरित्यक्ते विवादिनी । ध्यौ भाव्यऽशुभं किञ्चित् नववाक्याद् विलस्यते ॥१४॥ हा! हित्वाऽस्मान् कथं स्वामिन् ! यासि लोकान्तरं स्वयम् । इत्युच्चै रुदितं श्रुत्वा दध्यौ त्रैलोक्यसुन्दरी॥१५॥ स्वामिचामरधारिण्यौ विमला-कमलाभिधौ । कथं चक्रन्दतुः सेति समुत्तस्थौ समुत्सुका ॥ १६ ॥ संभ्रान्ता सा तता यान्ती त्रुटितात् सारहारतः । चिक्षेप मौक्तिकश्रेणीं पुण्यवीजमिव क्षितौ ॥ १७ ॥ 'प्रियंवदादयः सख्यश्चेलुरलक्त-काङ्कण(न)म् (१) । कुर्वन्त्य इवाऽसौख्यस्याऽऽग व्छतोऽनुपदं मुदे ॥१८॥ (त्रैलोक्यसुन्दरी-मूर्छा-विलापौ) ततः प्रेक्ष्याऽतिदुष्प्रैश्यामवस्थां भर्तुरात्मनः । वियोगोष्णतुसंतप्ता पद्मिनी साऽपतद् भुवि ॥ १९ ॥ सखीशीतापचारः साग मूर्छाऽगच्छत् तदङ्गतः । ज्वलहियोगज्वलनज्वलज्जालभयादिव ॥ २० ॥ यद्वियोगव्यथामन्था ममाथाऽत्या मनोऽम्बुधिम् । दुःखक्षाराम्बुयुग्वाणीमणीश्रेणी तदुद्ययौ ॥ २१ ॥ आश्वस्य स्वामिनः स्वस्योन्नमय्यास्यमथाऽब्रवीत् । ब्रूहि नाथ ! यतो नाऽथ करिष्ये विप्रियं प्रिय ! ॥२२॥ वाक्यं देहि दृशं देहि स्मितं वा देहि वल्लभ । एकेनाऽप्येषु दत्तेन जीवाम्येषाऽन्यथा कथम् ? ॥२३ ॥ श्यामास्यताऽक्षिसंकोचो मानाद् मौनं चिरं कृतम् । स्नेहं हन्ति त्वयेत्युक्तं मयि स्मर भृतास्मर ! ॥२४॥ शत्रणामपि नम्राणां त्वं प्रसादपरः सदा । मयि नाऽसि कथं मानादपनानमनुस्मरन् ॥ २५ ॥ यावदेवमपि प्रोक्ते न रेजे च ततस्तया । व्यचिन्ति स्वगतं धर्मवाक्यादेष वदिष्यति ॥ २६ ॥ प्रोचे प्राणेश! मध्याह्नस्वपनं न वरं बहु । उत्तिष्ठाऽमी निविष्टा हि विद्वांसो वचनेच्छवः ॥ २७ ॥ स्वहानयशसाऽऽनीता द्वारे सन्त्यर्थिनोऽर्थिनः । दान प्रिय ! प्रियं दानं तेभ्यो देहि मुदे हि मे ॥ २४ ॥ - १ न गम्यतेऽस्य भावः । २ स्मृति. नय. । Jain Education Leational For Private & Personal Use Only w niainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy