________________
Occom
हुण्डरीक-8 सुनन्दाऽपि हृदानन्दा प्रभुसेवाप्रभावतः । बभार गर्भ सद्धर्म-मर्दभ्रं भव्यधीरिव ॥३३॥ ॥६॥४अन्यादा नाश सत्ता ।
8 अन्यदा निशि संसुप्ता साऽथ देवी सुमङ्गला। चतुर्दश महास्वप्नान् ददर्शाऽऽमोददायिनः ॥३४॥ गजो-क्ष-सिंह-लक्ष्मी-सक्-चन्द्रा-ऽर्क-कलश-ध्वजाः। पद्माकर-विमाना-ऽब्धि-रत्नपुञ्जा-ऽग्नयश्च ते ॥३५॥४ स्वप्नान् स्वबुद्धावास्थाप्य सा प्रबुद्धा महासती। प्रभाते सप्रभा प्रष्टुं प्रमोदात् प्रभुमभ्यगात् ॥३६॥ कराभ्यां क्रान्तहस्तीन्द्रं मृगेन्द्र सान्द्ररोचिषम् । दृष्ट्वा सो (स्वो) त्संगगं स्वप्ने सुनन्दाऽप्यत्र साऽऽययौ ॥३७॥ तयोः स्वप्नान निशम्याऽऽह स्वामी कोमलया गिरा । देवि ! स्वप्नप्रभावात् ते चक्री पुत्रो भविष्यति ॥३८॥8 सुमङ्गला पुनः प्राह मत्सुतः कर्मतः कुतः। भविष्यति स चक्रेशः प्रसयेदं वद प्रिय ! ॥३९॥ जगाद जगदीशोऽथ ज्ञानत्रयपवित्रवाक् । युवाभ्यां स्थिरचित्ताभ्यां देव्यो! संश्रूयतां वचः ॥४०॥
ऋषभपुत्रपूर्वभवा:क्षेत्रे महाविदेहाख्ये नगरी पुण्डरीकिणी। वज्रसेनाऽहतस्तत्र पुत्राः पञ्चाऽभवन्नमी ॥४१॥ वज्रनाभस्तथा बाहुः सुबाहुः पीठसंज्ञकः । महापीठश्चेति सुता आद्यश्चयभवञ्चिरम् ॥४२॥ कियत्यपि गते काले संसाराऽसारताविदः । वज्रसेनजिनस्याऽन्ते तपस्यां ते समासदन ॥४३॥ गणेश्वरपदे प्राप्त वज्रनाभो महामुनिः । अर्हद्भक्त्यादिभिः स्थानस्तीर्थेशत्वमुपार्जयत् ॥४४॥ ४बाहुबहुभ्यः साधुभ्यो भक्तं भक्तिभराद् ददत् । आर्जयच्चक्रवर्तित्वं महाभोगविभूतिदम् ॥४५॥
१ अदभ्रम्-संपूर्णम् ।
ĐỒ 6500 Ooooooo oooooooooooooooo
१२
Jain Education n
ational
For Private & Personal Use Only
inelibrary.org