SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक(त्रैलोक्यसुन्दरीपितुश्चिन्ता, स्वयंवरार्थ च भूपाह्वानम्-) चरित्रम्. IS चिन्ताकूपमयो भूपचित्तं तद्रूपदर्शनात् । पपात स तदाकृष्टिहेतो पानजूहवत् ॥ ९५॥ पुरीपूर्वदिशो भागे स्वयंवरणमण्डपे। समेष्यन्त्यद्य सर्वेऽपि निमन्त्रितमहीभृतः ॥ ९६ ॥ सर्गः-४ कुमारी सुप्रतीहारी मुखाद् ज्ञात्वा नवं वरम् । सप्रेममालया पुष्पमालया केलयिष्यति ॥ ९७ ॥ नवग्रहभिरत्नोद्यत्सकणे करकङ्कणे । इमे नीत्वाऽस्मि याम्यऽस्या भूषायै सिद्धिरस्तु ते ॥ ९८॥ इत्युदित्वोत्सुके याते तस्मिन् सोऽथ व्यचिन्तयत् । संमुखे करणे श्रेष्ठं शकुनं समभूद् मम ॥ ९९ ॥ (मेघनादः स्वयंवरणमण्डपं चचाल-) 8 माङ्गल्ये वचनं चैतत् भूषायै सिद्धिरस्त्विति । ततो यामीति निश्चित्य चचाल किल तद्दिशि ॥१०॥ (स्वयंवरमण्डप:-) 8 विस्फुरत्स्वर्णकलसं रणत्किङ्किणितोरणम् । मुक्तावचूलमालाभिर्मालितं शालितं ध्वजैः ॥१॥ कर्पूरपूरकस्तुरीमण्डलीमण्डितक्षितिम् । मौक्तिकस्वस्तिकाकीर्ण विस्तीर्ण तीर्णखार्णवम् ॥२॥ रमणीरमणीयं तमनणीयःश्रिया श्रितम् । मुमुदे मण्डपं दृष्ट्वा मण्डितं नरमण्डनः ॥ ३ ॥ (विशेषकम् ) (स्वयंवरागतनरपतिवर्णना-) . 8| येषां घनेषु सैन्येषु स्फूर्जदुर्जायितं रवेः। ज्वालाभिः खञ्जमालानामुद्यविद्युच्छायितम् ॥ ४॥ येषां सहीरैः कोटीरैः स्फुरत्सूर्यशतायितम् निर्मलैश्चात पत्रैश्च व्योश्नि सोमशतायितम् ॥५॥ यान सुवर्णसवर्णाङ्गान् रत्नालंकृत्यलंकृतान । राजन्यान् रोहणालीनान् चलान् स्वर्णाचला निव ॥६॥ १ चित्ताकृष्टिः-चिन्ताकूपपतितचित्तस्य आकर्षणम् । २ सूर्याद्या नव ग्रहाः । ३ अनणीयो महत् । ४ विद्युच्छतमिव आचरितम् । ५ कोटीरा मुकुटाः । ६ चन्द्रशतवद् आचरितम्। ७ रोहणाख्ये पर्वते आलीनान् । ६ ॥१०७१ 0000గారంగా OMXOLORoooomnude Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy