SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ चरित्रम्. | सर्गः-४ देव्यूचे मवचःपूरं कर्णपूरं कुरु स्थिरम् । कुमार! सद्गुणाधार ! मन्मनःप्रमदप्रद ! ॥ ७३ ॥ सर्वराज्याधिदेवी मां विद्धि सिद्धिप्रदां सदा । एताश्चतस्रः सैनस्य चतुरङ्गस्य देवताः ॥ ७४ ॥ (मेघनादसत्त्वपरीक्षार्थमेव एतत् देवीकृतम्-) ममात्मस्थानमासीन-देवीजिह्वाभिरागता । त्वद्दानसंभवा कीर्तिः कर्णाकर्ष चंकर्ष सा ॥७५ ॥ 18 सदैन्या-ऽदैन्यरूंपाभ्यां मृगनारी-मृगेन्द्रयोः। अयि क्षत्त्रं च सत्त्वं च वीक्षितं च परीक्षितम् ॥ ७ ॥ तव मार्गविषण्णस्य निषण्णस्य तरोस्तले । देहाद् दात्यमहं प्रापं सुदुष्प्रापं तदा यतः ॥ ७७ ॥ जना ज्ञातमहत्त्वाय प्रायः स्वमुपकुर्वते । त्वं तु मामप्यविज्ञायो-पचक्रे तद् भृशार्यते ॥ ७८ ॥ (मेघनादं सार्वभौभं करोमि-) योग्याः स्वल्पस्य राज्यस्य सेवका बहवोऽपि मे । अत्यद्भुतगुणं त्वां तु सार्वभौम करोम्यहम् ॥ ७९ ॥ इत्यूचाना प्रसन्नास्या पृष्ठेऽस्य करपङ्कजम् । निवेश्योत्थापयांचवे राज्यदेवी कुमारकम् ॥ ८० ॥ माणिक्यमणिरत्नाव्यशिरःकोटीरमध्यतः। मन्दारपुष्पं हस्तेन नीत्वा तस्मै ददौ सुरी ॥ ८१ ॥ राजसूनो ! प्रसूनेनाऽनेनाऽवश्यं वशंवदाः। भविष्यन्ति नृपाः सर्वे तमित्यूचेऽथ देवता ॥ ८२॥ (मेघनादप्रवास:--) राज्यदेवी तिरोभूता सा प्रभूताऽमरीवृता । सोऽप्यचालीदिलीऽऽलोककुतुहलरसाकुलः ॥ ८३ ॥ १ कृष्टवान् । २ मृगी सदैन्या, सिंहः-अदैन्यः । ३ तव देहाद् अहं एतादृशं दाढूध प्रापम्-अर्थात् तव देहे अहम् एतादृशं दाढ्य निरीक्षितवती-यद अन्यत्र सदर्लभम् । ४ प्रभूतीभवति । ५ सर्वभूमीश्वरम्-सर्वमुख्यम् । ६ उक्तवती । ७ अस्य मेघनादस्य पृष्ठ । ८ मन्दार:-कल्पतरूः। ९ प्रसून पुष्पम् । १. इला-भूमिः। 0000000000000000000000000000000000oodboo0000 5003000wooooooodawww000000000000000 ॥१०५॥ Jain Education national For Private & Personal Use Only gww.jainelibrary.org 1511
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy