________________
पुण्डरीक॥१०४॥
१२
( तद्विषादनाशाय मेघनादपौरुषम् - )
इति मौनावलम्बिन्यां कामिन्यां स व्यचिन्तयत् । निशम्याऽपि महादुःखं चेन हन्मि ततः पशुः ॥ ३१ ॥ विश्वेऽस्मिन् दीनता भीतो न दुःखं कथयेज्जनः । कथयेचेत् तदा दुःखनाशमाशास्यं चेतसा ॥ ६२ ॥ अस्मात् कायव्ययादेष स्थिरां पुण्यतनूं लभे । अथवा मन्दभाग्यत्वं पुरा म.दुरभूद् मम ॥ ६३ ॥ न मां वदति जिह्वाऽस्या यावद् दुःखापनीतये । तावत् करोमि मे वाच्छा पुण्यैर्भूयात् फलेग्रहिः ||३४|| सतां मान्यः सतां देवीमवदत् तदनु स्फुटम् । वह्निकुण्डस्थितं शीघ्रमङ्गुलीयं प्रदर्शय ॥ ६५ ॥ साssक्रम्य भूमिकां स्तोकां तर्जन्या तद्वचोऽकरोत् । मुमुदेऽथ स तं दृष्ट्वा मुनिवद् वह्निः पनम् ॥६६॥ परदुःखविनाशाय कार्यं कुर्यात् पुनर्विधिः । इत्युदित्वा ददौ झम्पां निष्कम्पःङ्ग-मनस्थितिः
॥ ६७ ॥
( वदेर्जलीभावः - )
तस्मिन् सत्त्वसुधाकुण्डे संगते कुण्डमण्डनम् । वह्निः स जलतां भेजे कीर्तिबीजलतां तदा ॥ ६८ ॥ ( मेघनादस्य स. फल्यम् - )
जयनादेन देवीनां स्फीतेन यशसा समम् । मूर्ती मुदभिवैतस्य मुद्रां नीत्वा स निर्ययौ ॥ ६९ ॥ ( देवीप्रसन्नता - )
सत्त्वेन तुष्टाऽतुष्टाऽहं वत्स ! स्वच्छ ! वरं वृणु । देव्या एवं वदन्त्यास्तं पुरो मुक्त्वा ननाम सः ॥ ७० ॥ तस्याः प्रसन्नचित्ताया आलोक्याऽऽलोकनिर्मलम् । मुखचन्द्रमदुःखी भ्रमथाऽवादीत् कृताञ्जलिः ॥ ७१ ॥ यद्वरं दर्शनं स्वीयं दत्तं सोऽभूद् महावरः । पूर्ववृत्ते तु संदेहमन्देहं मतिरस्ति मे ॥ ७२ ॥
१ आशां कृत्वा । २ फलवान् । ३ आतापनासेवनं यथा मुनिः करोति । ४ मेघनादे । ५ एतस्याः पूर्वोक्काया देव्याः । ६ दुःख-अअद्दीनम् । ७ इह संदेहमन्दा ।
Jain Education International
For Private & Personal Use Only
co
noonooooon∞∞∞∞∞∞∞
चरित्रम्
सर्ग :-४
॥१०४॥
www.jainelibrary.org