SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ DO6600000 पुण्डरीक-ततस्ते प्राज्यसाम्राज्य! देहगेहतनूभवान् । दानेनाऽपि सदा दगुर्नत्वहो! शरणागतम् ॥ ३७ ॥ ॥१०२॥ प्रसन्नेनाद्य दैवेन पुण्यदेहस्य पोषदम् । भीतत्राणं महाभोज्यं दत्तं तत् किमहं त्यजे ॥ ३८ ॥ सर्गः-४ (सिंहाय मृगीस्थाने स्वदेहदानम्-). मम भक्ष्यान्तरायेण सर्वमेतत् प्रैलेष्यते । इति चेद् वदसि तद्देहं ममाऽऽस्वादय सत्वरम् ॥ ३९ ॥ . इत्युक्त्वा पतितेऽग्रेऽस्मिन् सिंहोऽवाचन्नरोत्तम । मानुषं जन्म दुष्प्रापं मोक्षदं किं परित्यज ॥ ४० ॥ 81 मृगकान्त कृते प्राणान् यच्छतस्तुच्छधीजुवः । भोक्ष्याम्यहं न मांसं ते गच्छ स्वच्छ ! विचारय ॥४१॥ है स ऊचे जगृहे मोक्षो मया श्रेयाश्रियाऽनया। मृग्या जीवस्थापनिको मोक्षं कुर्यानपापदम् ॥ ४२ ॥ 18 प्रसादं कुरु पारीन्द्र ! शरीरं मे कृतार्थय । वदन्निति पुनर्यावत् पपाताऽग्रेऽतिसाहसी ॥ ४३ ॥ (मृगी-सिंहौ अन्तर्हितौ-) तावदग्रे मृगी सिंहं नोऽपश्यद् विस्मितस्ततः । पित्तेन दूनचित्तेन ददृशे किमिदं मया ॥४४॥ इति विस्मित्य विस्मित्य स्वेन चित्तेन तच्चिरम् । वकुलादचलद् मेघ-जादो नाऽदो धिया त्यजन् ॥ ४॥ पुण्येऽरण्येऽन्यदाऽनेन गच्छता स्वच्छतान्विता । फल-द्रमालिकलिता नदी काचिददृश्यत ॥ ४६ ॥ हेलया संचरंस्तत्र पुंलिने विपुले.ऽमले । मेघनादः फलान्यादै पपी नीरं च निर्मलम् ॥ ४७ ॥ (मेघनादो दार्श प्रासादम्-) पुरस्तदा स्फुरनानारत्नराशिप्रभाभरैः । पवित्रताम्बरतलं प्रासादं प्रददर्श सः ॥ ४८ ॥ 12 १ पुत्रान् । २ प्रलयं यास्यति " लीड्च क्षेषणे" धातुः । ३ आत्मनेपदमनित्यम् । अत एव भोक्ष्यामि-भोजनं करिष्यामि । ४ जीवरक्षा । ५ अपापदम् ।४। २६ सिंह ! । ७ पित्तेन शरीरस्थेन तन्नाम्ना धातुना-पित्तन हि भ्रमो जायते इति प्रसिद्धः । ८ न अदः एतत् पूर्वोक्तं वैचित्र्यम् । ९ पुलिनः तटः । १. आद भक्षयामास । OoMOOOOO00000000000000000000000 Do00000000000OOLoooooळ00000000स 8॥१०२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy