________________
पुण्डरीक- वैरसिंहोऽत्र राजाऽपि नैव यः कुवलप्रियः। जगन्मित्रोऽपि सूरोऽपि नैव यः विश्वतापनः ॥ १५ ॥
(लीलावती राज्ञी-) शीललीलावती तस्य नाम्ना लीलावती प्रिया । अक्षीणसत्यपीयूषा यस्या आस्यामृतद्युतिः ॥ १६ ॥ 188 (पुत्रो मेघनादः-)
पूर्वपुण्यैस्तयोर्दत्तः पुत्रः सुत्रामविक्रमः। मेघनाद इति ख्यात्या ख्यातो ध्यातो जगजनैः ॥ १७ ॥ बाल्यं क्रमेण तत्याज मौग्ध्यं सर्वत एव यः। यौवनं यः क्रमात् प्राप कलाः कीर्ति च सर्वतः १८॥
(मेघनाददानन्यसनम्-) साक्षिणं शुद्धपुण्यं यः कृत्वा दत्त्वा निजं करम् । मैत्र्यं दानाख्यमित्रेण स्थिरं जग्राह साग्रहः॥ १९ ॥ दत्त्वार्थिभ्यः सुवर्ण यः सुवर्ण वादमग्रहीत् । विधाप्य पुण्यप्रासादान प्रसादं पुण्यतोऽनयत् ॥ २० ॥ स दानं च सदानन्दकरं धीमान् सदा ददौ । यथा यथा तथाऽभ्येयुः कलापात्राण्यनन्तशः ॥ २१ ॥ महादानं ददानोऽयं वर्धमानमथो दिने। अष्टादश स्वर्णकोटीकोटीर: प्रदत्तवान् ॥ २२ ॥
(दानव्यसनभीतो राजा जगौ-) दानव्यसनतो भीतो राजा रहसि तं जंगौ। वत्स! स्वच्छतया भोगः कार्यों नौदार्यमद्भुतम् ॥ २३ ॥
(मेघनादप्रवास:-) निशम्येति महादानी महामानी महानिशि । निस्ससार सदाचारसारः सारभृतो भृशम् ॥ २४ ॥
(प्रीष्मः-) १ राजा चन्द्रो हि कुवलं कुवलयम्-चन्द्रविकासि पद्मम्-तस्य प्रियः । अयं वैरसिंहो राजा-नृपः सन्नपि नैव कुबलानां निन्दितबलानां प्रियः-तेषां नाशकत्वात् । पुनश्च अयं वैरसिंहो नृपः जगन्मित्रः, सूरोऽपि सन् नैव विश्वतापनः, जगन्मित्रः-सूरः-भानुर्हि विश्वतापनः प्रतीतः इति विरोध-परिहारौ । २ अक्षीणं सत्यं पीयूषम्-अमृतं यस्यां सा । ३ यः शुबपुण्यं साक्षि विधाय, निजं हस्तं दत्त्वा दाननाम्ना मित्रेण स्थिर मित्रत्वं संपादितवान् दानशूर आसीद-इति तत्त्वम् । ४ शोभना वर्णा यस्मिन्-यशोवादम्-इत्यर्थः । ५ पुण्यमहालयान् । ६ कलापात्राणि-कलानिपुणाः । ७ कोटीरो-मुकुटः । ८ कथयामास ।
200000000000000000000000000000000000000000
30000000000000000000000000000000000000000000
A
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org