SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥ ९९ ॥ ४ ८ 0000000000 ( देवता आगता - ) ders fraष्टस्य काचिदभ्येत्य देवता । नत्वांsहियुगलं यावत् तस्थौ सुस्थमनाः पुरः ॥ ५ ॥ ( श्री रत्नचूडो राजा - ) तावत् कृतारिदैन्येनं सैन्येन परितो वृतः । अङ्गरक्षैर्महादक्षैः सुभटैरुद्भटैस्तथा ॥ ६ ॥ मन्त्रिणा मतिचन्द्रेण राजहंसेन सूनुना । युक्तः श्रीरत्नचूडाख्योऽभ्येत्य राजाऽनमद् मुनिम् ॥ ७ ॥ ( सचिवप्रश्नः - ) स ततः सचिवः प्रोचे भगवन् ! अस्य भूपतेः । देवः कोऽपि पुरा वैराद् जिह्वास्तम्भं चकार किम् ? ॥ ८ ॥ कस्माद् वा भक्षणादेष जोदोषं पुपोष किम् । यौवराज्येऽवद् वाक्यं नो राज्यप्रापणात् कथम् १ ॥ ९ ॥ ( ऊचे मुनिः - ) मुनिचे पुराऽनेन कर्मबन्धकरं वचः । उक्त्वा ज्ञातमिदं पश्चात् क्षामितं विनयात् पुनः ॥ १० ॥ ततः पूर्वभवं स्मृत्वा विभ्यत् वाक्-कर्मबन्धतः । नासौ वदति तद् नाऽन्यद् नृपमौनेऽस्ति कारणम् ॥ ११ ॥ ( जगाद पुनर्मन्त्री - ) स जगाद पुनर्मन्त्री कोऽस्य पूर्वभवः प्रभो ! । किं वा तद्वचनं चेति ? कथ्यतां संसदि द्रुतम् ॥ ( स्वामिदेशना - रत्नचूडनृपपूर्वभवश्च - ) १२ ॥ तेति पृष्टे 'तेनेऽथ स्वामिना देशनाऽमुना । संमोहगेहसंदेह-व्यपोहार्यं सुमन्त्रिणः ॥ १३ ॥ (विदेहे क्षेत्रे रत्नपुरम् ) क्षेत्रे महाविदेहाख्ये विजयो मङ्गलावती । तत्र रत्नपुरं नाम नगरं पुण्यनागरंम् ॥ १४ ॥ (वैरसिंहो राजा -- ) १ कृतम् अरिषु दैन्यं येन । २ मूकतादेोषम् । ३ वाचा जन्यः कर्म-बन्धः -- ततः । ४ सभायाम् । ५ ' तन्' धातोः परोक्षकालरूपम् - विस्तारं कृतवान् इत्यर्थः । ६ व्यपोहो- दूरीकरणम् । ७ पुण्याः नागरा नगरवासिनो यत्र तत् । Jain Education International For Private & Personal Use Only ∞∞∞ 0000000000000000000000∞∞∞∞∞∞ चरित्रम्सर्गः -४ ॥ ९९॥ www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy