SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-ठविमलभूमिधरं प्रति हर्षतः प्रचलिते प्रथमे गणनायके। हरिणवेषसुरं सह वासवः प्रहितवांस्तदुपासनहेतवे॥२२८॥ चरित्रम् वातव्याधूतनूतध्वजभुजनिवहैरात्तवृत्तेव हृष्ट-स्वर्गस्त्रीवर्गगीतैरिव विहितमहामाङ्गलिक्योच्चरावा । सर्ग:-2 नव्या दिव्या विमानावलिरिह विमलाद्रिं प्रति प्रस्थितस्य रेजे श्रीपुण्डरीकप्रथमगणधरस्यानुगा हर्षितेव ॥२९॥ जय स्वामिन् ! स्वामिन्निति हरिणवेषप्रभृतिभिः सुरैः स्तोत्रव्यग्रैरनुगतपदोऽयं गणधरः। 8 चचाल श्रीशचुंजयगिरिवरं प्रत्यथ मुदा, चतुर्तानी सर्वागमवचनकर्पूरकलशः ॥ २३०॥ श्रीरत्नप्रभसूरिसूरकरतो दोषानुषङ्गं त्यजन् यो जाड्यस्थितिरप्यभूत् प्रतिदिनं प्राप्याद्भुतप्रातिभः। 8 तेन श्रीकमलप्रभेण रचिते श्रीपुण्डरीकप्रभोः श्रीशQजयदीपकस्य चरिते सर्गः तृतीयोऽभवत् ॥३१॥ इति श्रीबाहुबलिकेवलज्ञान-भरतसाधर्मिकवात्सल्य-पुण्डरीकयात्राप्रचलनो नाम तृतीयः सर्गः । चतुर्थः सर्गः। (विहरन्-धीपुण्डरीक:-) श्रीपुण्डरीकः सॅमितोऽप्रतिमप्रतिभप्रभुः । बहूनदीक्षयद् भव्यान् विबोध्य विहरन भुवि ॥१॥ (पोतनं पुरम्-) धनुःपञ्चशतीदेहस्ततः साधुशतैर्वृतः । प्राप पारिपुः पुण्योद्योतनं पोतनं पुरम् ॥ २ ॥ तस्योद्याने शुकैर्हसैमङ्गलालापिभिर्वृते । मुनिप्रभावात् सर्वर्तुरमणीयतरूच्चये ॥ ३ ॥ वातनिर्धूतपुष्पौषकृतचन्द्रोदयंभ्रमे । यतिस्थितिकृते चक्रुस्ते देवा रत्नशालिकम् ॥ ४॥(युग्मम् ) १ हरिणवेषो नाम 'हरिणेगमेषी'नामा देवः प्रतीयते, स च जैनसंप्रदाये प्रसिद्धः । २ आत्तं नृत्तं यया सा-ईदृशी विमानावलिः। ३ रावो-ध्वनिः । ४ पूर्वगतश्लोकव्याख्यावद् अस्याऽपि व्याख्या आख्येया। ५ पञ्चभिः समितिभिः समितः । ६ अप्रतिमा-अनुपमेया । ७ पापशत्रुः। ८ सर्व-ऋतु-रमणीयः तरूणाम् उच्चयो यत्र । ९ चन्द्रोदयः-भाषायाम् चन्दरवो-इति ख्यातः। . Coo00000 000000000000000000000000000000000000 00000000000000000000000000000000000000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy