________________
पुण्डरीक
चरित्रम्.
đox SUS
शस्तसमस्तसरित्-समुद्र-तीर्थोदकानि घोषणया । स्मरयन् प्रागभिषेक छेकः शेषं विधिं कुर्यात् ॥२॥ (भरतानुसरणम्-अन्यैः कृतम्-) भरतचक्रधराचरितं च तद् भविकभोजन-दानमपि क्षिती।
सुकृतिभिर्विदधे निजशक्तितो नृपतिभिबहुभिर्बहुभावतः ॥३॥ (ऋषभसेनप्रश्नः स्फटिकाचले-) ४ऋषभसेनगणः प्रथमोऽन्यदा ऋषभदेवविभु प्रणिपत्य च। सविनयं स्फटिकाचलमूर्धनि सममपृच्छत केवलसंभवे 18 इह हि बाहुबलिप्रमुखाः प्रभो! यतिवरा अपि केवलिनोऽभवन् ।
प्रथमतः श्रिततीव्रतरव्रतः कथमहं न लभे परमं महः ? ॥५॥ 18 बहुभवोपचितं दृढकेवलावरणनाम-कुकर्म मम प्रभो! ।
ब्रजति केन तपोविधिनाऽधुना रुचिरतीर्थभुवि क्व नु वा क्षयम् ॥६॥४ 18 (युगादिजिनो जगाद-) अथ जगाद युगादिजिनाधिपो विमलशैल इतोऽपरदिग्भुवि ।
ध्रुवमनन्तमुनीश्वरमुक्तिदो विमलताकलितोऽस्ति पुराऽपि यः॥७॥ विमलशैलवरस्य शिरस्यहो! गणपते ! तव तस्य समीयुषः।
विमलता शिवसौख्यफलावलिप्रसवकल्पलताऽस्ति च भाविनी ॥८॥ पथि भविप्रतियोधविधायिनो विमलशैलविभावविभासनम् ।
तव च तत्र भवेद् बहुभावनोदय इति त्रितयं दुरितापहम् ॥९॥ १ छेकः चतुरः । २ शिरसि शिखरे । ३ विभावः प्रभावः । ४ भविप्रतिबोधः, विमलीलविभासनम, भावनोदयश्च-एतत् त्रितयम् ।
200000000000000000000000000000000000000000000000000
१२
XONNANON MOONONO
॥९४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org