SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥८३॥ अत्राग्निकार्यशब्दवाच्यस्य यागादिविधेरुपायान्तरैरपि लभ्यानां संपदामेव हेतुत्वं वदन्नाचार्यः-तस्य सुगतिहेतुत्वमर्थात् कर्थितवानेव । तथाच स एव भावाग्निहोत्रं ज्ञानपालीत्यादिश्लोकैः स्थापितवान् । तदेवं स्थिते तेषां वादिनां चेष्टामुपमया दूषयति- स्वपुत्रेत्यादि । परेषां- भवत्प्रणीतवचनपराङ्मुखानां स्फुरितं-चेष्टितं, स्वपुत्रघाताद् नृपतित्वलिप्सासब्रह्मचारि-निजसुतनिपातनेन राज्यप्राप्तिमनोरथसदृशम् । | यथा किल कश्चिदविपश्चित् पुरुषः परुषाऽऽशयतया निजमङ्गजं व्यापाद्य राज्यश्रियं प्राप्तुमीहते; नच तस्य || | तत्माप्तावपि पुत्रघातपातककलङ्कपङ्कः कचिदपयाति; एवं वेदविहितहिंसया देवताऽऽदिप्रीतिसिद्धावपि,हिंसासमुत्थं दुष्कृतं न खलु पराहन्येत । अत्र च लिप्साशब्दं प्रयुञ्जानः स्तुतिकारो ज्ञापयति- यथा तस्य दुराश-8 यस्याऽसदृशतादृशदुष्कर्मनिर्माणनिर्मूलितसत्कर्मणो राज्यप्राप्तौ केवलं समीहामात्रमेव, न पुनस्तत्सिद्धिः | एवं तेषां दुर्वादिनां वेदविहितां हिंसामनुतिष्ठतामपि देवताऽऽदिपरितोषणे मनोराज्यमेव, न पुनस्तेषामुत्तमजनपूज्यत्वमिन्द्राऽऽदिदिवौकसां च तृप्तिः, प्रागुक्तयुक्त्या निराकृतत्वात् । इति काव्यार्थः ॥ ११ ॥ . सांप्रतं नित्यपरोक्षज्ञानवादिनां मीमांसकभेदभट्टानाम् ; एकात्मसमवायिज्ञानान्तरवेद्यज्ञानवादिनां च यौगानां मतं विकुट्टयन्नाह वार्थावबोधक्षम एव बोधः प्रकाशते नाऽर्थकथाऽन्यथा तु । ८३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy