________________
स्याद्
॥८२॥
"उत्पद्यते हि साऽवस्था देशकालाऽऽमयान् प्रति ।
यस्यामकार्य कार्य स्यात् , कर्म कार्य तु वर्जयेत् "॥ १॥ इति वचनात् । यथा बलवदादेवरिणो लङ्घनं, क्षीणधातोस्तु तद्विपर्ययः । एवं देशाद्यपेक्षया ज्वरिणोऽपि दधिपानादि योज्यम् । तथा च वैद्याः___ "कालाविरोधि निर्दिष्टं ज्वरादौ लङ्घनं हितम् । ऋतेऽनिलश्रमक्रोधशोककामकृतज्वरान्" ॥१॥
__ एवं च यः पूर्वमपथ्यपरिहारो, यश्च तत्रैवाऽवस्थान्तरे तस्यैव परिभोगः-स खलूभयोरपि तस्यैव रोगस्य शमनार्थः । इति सिद्धमेकविषयत्वमुत्सर्गाऽपवादयोरिति ।
भवतां चोत्सर्गोऽन्यार्थः, अपवादश्चान्यार्थः । " न हिंस्यात् सर्वभूतानि " इत्युत्सर्गो हि दुर्गतिनिषेधार्थः; अपवादस्तु वैदिकहिंसाविधिदेवताऽतिथिपितृप्रीतिसंपादनार्थः; अतश्च परस्परनिरपेक्षत्वे कथमुत्सर्गोऽपवादेन बाध्यते ? तुल्यबलयोर्विरोध इति न्यायात् ; भिन्नार्थत्वेऽपि तेन तद्बाधने-अतिप्रसङ्गात् । नच वाच्यम्-वैदिकहिंसाविधिरपि स्वर्गहेतुतया दुर्गतिनिषेधार्थ एवेति; तस्योक्तयुक्त्या स्वर्गहेतुत्वनिर्लोठनात्; तमन्तरेणापि च प्रकारान्तरैरपि तत्सिद्धिभावात् । गत्यन्तराऽभावे ह्यपवादपक्षकक्षीकारः।।
नच वयमेव यागविधेः सुगतिहेतुत्वं नाङ्गीकुर्महे, किन्तु भवदाप्ता अपि । यदाह व्यासमहर्षिः" पूजया विपुलं राज्यमग्निकार्येण संपदः । तपः पापविशुद्धयर्थं ज्ञानं ध्यानं च मुक्तिदम् " ॥१॥
1८२॥
Jain Education Intl
nal
For Private & Personal Use Only
wwarelibrary.org