SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ स्याद् कृते, साधर्म्यप्रयोगेणैव प्रत्यवस्थानम्- नित्यः शब्दो निरवयवत्वाद्,आकाशवत्। न चास्ति विशेषहेतुः-घटसा॥६८॥ || धात् कृतकत्वादनित्यः शब्दः, न पुनराकाशसाधाद् निरवयवत्वाद् नित्य इति । वैधये॒ण प्रत्यवस्थान| वैधर्म्यसमा जातिर्भवति:-अनित्यः शब्दः, कृतकत्वाद्, घटवदित्यत्रैव प्रयोगे, स एव प्रतिहेतुर्वैधैर्येण प्रयुज्यते-8 नित्यः शब्दो, निरवयवत्वात् । अनित्यं हि सावयवं दृष्टम् : घटादीति; न चास्ति विशेषहेतुः-घटसाधात् कृतकत्वादनित्यः शब्दः, न पुनस्तद्वैधाद् निरवयवत्वाद् नित्य इति । उत्कर्षापकर्षाभ्यां प्रत्यवस्थानम् उत्कर्षा पकर्षसमे जाती भवतः, तत्रैव प्रयोगे, दृष्टान्तधर्म कश्चित् साध्यधर्मिण्यापादयन् उत्कर्षसमां जातिं प्रयुक्ते६ यदि घटवत् कृतकत्वादनित्यः शब्दः, घटवदेव मूर्तोऽपि भवतु; न चेद् मूर्तः, घटवदनित्योऽपि माभूदिति | शब्दे धर्मान्तरोत्कर्षमापादयति । अपकर्षस्तु-घटः कृतकः सन्-अश्रावणो दृष्टः, एवं शब्दोऽप्यस्तु; नो | चेद् घटवदनित्योऽपि माभूदिति शब्दे श्रावणत्वधर्ममपकर्षतीति । इत्येताश्चतस्रो दिङ्मात्रदर्शनार्थं जातय- 2 उक्ताः; एवं शेषा अपि विंशतिरक्षपादशास्त्रादवसेयाः । अत्र त्वनुपयोगित्वाद् न लिखिताः। तथा विप्रतिपत्तिरप्रतिपत्तिश्च-निग्रहस्थानम् । तत्र विप्रतिपत्तिः-साधनाऽऽभासे साधनबुद्धिः, दूषणाऽऽभासे च दृषणबुद्धिरिति । अप्रतिपत्तिः- साधनस्यादृषणं, दूषणस्य चानुद्धरणम् । तच्च निग्रहस्थानं द्वाविंशतिविधम् । तद्यथा- प्रतिज्ञाहानिः, प्रतिज्ञान्तरं, प्रतिज्ञाविरोधः, प्रतिज्ञासंन्यासः, हेत्वन्तरम् , अर्थान्तरं, १ निरवयवत्वरूप एच.। २ घटरूपदृष्टान्तषैधम्र्येण । । 1 Jain Education Inter nal For Private & Personal Use Only wlehelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy