________________
स्याद् ०
॥६५॥
प्रयोजनदृष्टान्तसिद्धान्तावयव तर्कनिर्णय वादजल्पवितण्डा हेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानाद् निःश्रे यसाधिगमः” इति वचनात् । न चैतेषां व्यस्तानां समस्तानां वा अधिगमो निःश्रेयसाऽवाप्तिहेतुः । न ह्येकेनैव क्रियाविरहितेन ज्ञानमात्रेण मुक्तिर्युक्तिमती; असमग्रसामग्रीकत्वात् ; विघटितैकचक्ररथेन मनीषितनगरप्राप्तिवत् ।
न च वाच्यं न खलु वयं क्रियां प्रतिक्षिपामः, किन्तु तत्त्वज्ञानपूर्विकाया एव तस्या मुक्तिहेतुत्वमिति ज्ञापनार्थ-तत्त्वज्ञानाद् निःश्रेयसाधिगम इति ब्रूम इति न ह्यमीषां संहते अपि ज्ञानक्रिये - मुक्तिप्राप्तिहेतुभूते; वितथत्वात् तज्ज्ञानक्रिययोः । न च वितथत्वमसिद्धम् ;- विचार्यमाणानां षोडशानामपि तत्त्वाभासत्वात् । तथाहि - तैः प्रमाणस्य तावद् लक्षणमित्थं सूत्रितम् - "अर्थोपलब्धिहेतुः प्रमाणम्" इति । एतच्च न विचारसहम् ; यतोऽर्थोपलब्ध हेतुत्वं यदि निमित्तत्वमात्रं, तत्सर्वकारकसाधारणमिति कर्तृकर्मादेरपि प्रमाणत्वमसङ्गः । अथ कर्तृकर्मादिविलक्षणं हेतुशब्देन करणमेव विवक्षितं तर्हि तज्ज्ञानमेत्र युक्तं, न चेन्द्रियसन्निकर्षादि । यस्मिन् हि सत्यर्थ उपलब्धो भवति, स तत्करणम् ; न चेन्द्रियसन्निकर्षसामग्य्यादौ सत्यपि ज्ञानाभावेऽर्थोपलम्भः । साधकतमं हि करणम् ; अव्यवहितफलं च तदिष्यतेः व्यवहितफलस्यापि करणत्वे दुग्धभोजनादेरपि तथाप्रसङ्गः । तन्न ज्ञानादन्यत्र प्रमाणत्वम्; अन्यत्रोपचारात् । यदपि न्यायभूषणसूत्रकारेणोक्तम्- “ सम्यगनुभवसाधनं प्रमाणम् ” इति । तत्रापि साधनग्रहणात् कर्तृकर्मनिरासेन करणस्यैव
Jain Education Internal
For Private & Personal Use Only
॥६५॥
inelibrary.org